आत्मा किमकर्ता कर्ता वेति विप्रतिपत्तेः सन्देहे ‘तद्गुणसारत्वात्’ इत्यनेनैव तत्कर्तृत्वादिसिद्धेर्न संशीतिरित्याशङ्क्याह -
तद्गुणेति ।
अधिकारः प्रसङ्गः । यद्यपि कर्तृत्वस्य न स्वयं पुमर्थता, नापि प्रतिपाद्यवाक्यार्थोपयोगिता, यद्यपि चौपाधिकं कर्तृत्वमात्मानि प्रागेव सिद्धं, तथापि निरस्यपक्षसम्भवात्तन्निरासायारम्भः सम्भवतीति भावः । अत्र च विध्यादिश्रुतीनामसङ्गतादिश्रुतीनां चात्मकर्तृत्वाकर्तृत्वार्थानां बन्धमोक्षविषयत्वेन मिथो विरोधं विधूय नित्यमुक्ते ब्रह्मणि समन्वयाधानात्पादादिसङ्गतयः ।
पूर्वपक्षे श्रुतीनाममूषां विरुद्धत्वेनाप्रामाण्यात्तत्र समन्वयासिद्धिः । सिद्धान्ते तासामविरोधेन व्यवस्थया प्रामाण्यात्तत्सिद्धिरिति मन्वानः सिद्धान्तं प्रतिजानीते -
कर्ता चेति ।
सत्येव मनसि जागरादौ कर्तृत्वोपलम्भादसति स्वापे तदभावादन्वयव्यतिरेकाभ्यां कर्तृत्वस्य मनोनिष्ठत्वदृष्टेः, तत्सत्ताहेतुविषयत्वसम्भवे च तयोस्तद्विशिष्टार्थधीमात्रहेतुत्वकल्पनाया बहिरङ्गत्वात् , अहं कर्तेति धियश्चात्मनः साधारण्यान्न कर्तृत्वमात्मनोऽस्तीत्याह -
कस्मादिति ।
स्वर्गाद्यर्थिनो यागादिविध्यन्यथानुपपत्त्या कर्तृत्वमात्मनो दुर्वारमित्याह -
शास्त्रेति ।
तदेव व्याकरोति -
एवमिति ।
ऐक्यश्रुतिविरोधे विधिशास्त्रमन्यपरतया दुर्बलमित्याशङ्क्य सम्पत्परत्वेन तस्याः सावकाशत्वाद्विधिश्रुतेश्च निरवकाशत्वान्मैवमित्याह -
अन्यथेति ।
कर्त्री बुद्धिरित्युपगमात्तद्विषयत्वेन विधिशास्त्रं सावकाशमित्याशङ्क्य विधेः प्रतिपत्तुरेव कर्तृतेत्याह -
तद्धीति ।
ममेदं कर्तव्यमिति धीसमर्थस्य चेतनस्य विधिसम्बन्धमाह विधिशास्त्रमित्यर्थः ।
तथापि कथं तस्य कर्तृत्वधीरित्याशङ्क्याह -
नचेति ।
तस्य विधेयार्थकर्तृतां विनाऽनुपपन्नं विधिशास्त्रं चेतनस्य तदर्थानुपपत्त्या गमयति । बुद्धेरेव कर्तृत्वे यस्य भोक्तुरपेक्षितोपायो विधिर्न तस्य कर्तृत्वं यस्य कर्तृत्वं न तस्यापेक्षितोपाय इत्यसङ्गतिरिति भावः ।
‘अनश्नन्’ इत्यादिश्रुतिविरोधे श्रुतार्थापत्तिर्दुर्बलेत्याशङ्क्य श्रुतिमाह -
तथेति ॥ ३३ ॥