ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
उपादानात् ॥ ३५ ॥
इतश्चास्य कर्तृत्वम् , यज्जीवप्रक्रियायामेव करणानामुपादानं सङ्कीर्तयतितदेषां प्राणानां विज्ञानेन विज्ञानमादाय’ (बृ. उ. २ । १ । १७) इति, प्राणान्गृहीत्वा’ (बृ. उ. २ । १ । १८) इति ॥ ३५ ॥

तद्व्याकरोति -

इतश्चेति ।

प्राणानामिन्द्रियाणां विज्ञानेन बु्ध्द्या विज्ञानं ग्रहणशक्तिमादाय स्वापे जीवो हृदयमेतीति योजना ।

उपादानान्तरमाह -

प्राणानिति ।

योजना पूर्ववत् ॥ ३५ ॥