ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॥ ३६ ॥
इतश्च जीवस्य कर्तृत्वम् , यदस्य लौकिकीषु वैदिकीषु क्रियासु कर्तृत्वं व्यपदिशति शास्त्रम्विज्ञानं यज्ञं तनुतेकर्माणि तनुतेऽपि ’ (तै. उ. २ । ५ । १) इतिननु विज्ञानशब्दो बुद्धौ समधिगतः, कथमनेन जीवस्य कर्तृत्वं सूच्यत इति, नेत्युच्यतेजीवस्यैवैष निर्देशः, बुद्धेः चेज्जीवस्य स्यात् , निर्देशविपर्ययः स्यात्विज्ञानेनेत्येवं निरदेक्ष्यत्तथा हि अन्यत्र बुद्धिविवक्षायां विज्ञानशब्दस्य करणविभक्तिनिर्देशो दृश्यतेतदेषां प्राणानां विज्ञानेन विज्ञानमादाय’ (बृ. उ. २ । १ । १७) इतिइह तु विज्ञानं यज्ञं तनुते’ (तै. उ. २ । ५ । १) इति कर्तृसामानाधिकरण्यनिर्देशाद्बुद्धिव्यतिरिक्तस्यैवात्मनः कर्तृत्वं सूच्यत इत्यदोषः ॥ ३६ ॥

कर्तृवाचकाख्यातश्रुत्यापि जीवस्य कर्तृत्वमित्याह -

व्यपदेशाच्चेति ।