मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
तृतीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
परात्तु तच्छ्रुतेः ॥ ४१ ॥
यदिदम
विद्यावस्थायामुपाधिनिबन्धनं
कर्तृत्वं
जीवस्याभिहितम्
,
तत्किमनपेक्ष्येश्वरं
भवति
,
आहोस्विदीश्वरापेक्षमिति
भवति
विचारणा
।
तत्र
प्राप्तं
तावत्
—
नेश्वरमपेक्षते
जीवः
कर्तृत्व
इति
।
कस्मात्
?
अपेक्षाप्रयोजनाभावात्
।
अयं
हि
जीवः
स्वयमेव
रागद्वेषादिदोषप्रयुक्तः
कारकान्तरसामग्रीसम्पन्नः
कर्तृत्वमनुभवितुं
शक्नोति
।
तस्य
किमीश्वरः
करिष्यति
।
न
च
लोके
प्रसिद्धिरस्ति
—
कृष्यादिकासु
क्रियास्वनडुदादिवत्
ईश्वरोऽपेक्षितव्य
इति
।
क्लेशात्मकेन
च
कर्तृत्वेन
जन्तून्संसृजत
ईश्वरस्य
नैर्घृण्यं
प्रसज्येत
।
विषमफलं
च
एषां
कर्तृत्वं
विदधतो
वैषम्यम्
।
ननु
‘
वैषम्यनैर्घृण्ये
न
सापेक्षत्वात्
’ (ब्र. सू. २ । १ । ३४)
इत्युक्तम्
—
सत्यमु
क्तम्
,
सति
तु
ईश्वरस्य
सापेक्षत्वसम्भवे
;
सापेक्षत्वं
च
ईश्वरस्य
सम्भवति
सतोर्जन्तूनां
धर्माधर्मयोः
।
तयोश्च
सद्भावः
सति
जीवस्य
कर्तृत्वे
।
तदेव
चेत्कर्तृत्वमीश्वरापेक्षं
स्यात्
,
किंविषयमीश्वरस्य
सापेक्षत्वमुच्यते
।
अकृता
भ्यागमश्चैवं
जीवस्य
प्रसज्येत
।
तस्मात्स्वत
एवास्य
कर्तृत्वमिति
—
एतां
प्राप्तिं
तुशब्देन
व्यावर्त्य
प्रतिजानीते
—
परादिति
।
अविद्यावस्थायां
कार्यकरणसङ्घाताविवेकदर्शिनो
जीवस्याविद्यातिमिरान्धस्य
सतः
परस्मादात्मनः
कर्माध्यक्षात्सर्वभूताधिवासात्साक्षिणश्चेतयितुरीश्वरात्तदनुज्ञया
कर्तृत्वभोक्तृत्वलक्षणस्य
संसारस्य
सिद्धिः
।
तदनुग्रहहेतुकेनैव
च
विज्ञानेन
मोक्षसिद्धिर्भवितुमर्हति
।
कुतः
?
तच्छ्रुतेः
।
यद्यपि
दोषप्रयुक्तः
सामग्रीसम्पन्नश्च
जीवः
,
यद्यपि
च
लोके
कृष्यादिषु
कर्मसु
नेश्वरकारणत्वं
प्रसिद्धम्
,
तथापि
सर्वास्वेव
प्रवृत्तिष्वीश्वरो
हेतुकर्तेति
श्रुतेरवसीयते
।
तथा
हि
श्रुतिर्भवति
—
‘
एष
ह्येव
साधु
कर्म
कारयति
तं
यमेभ्यो
लोकेभ्य
उन्निनीषते
।
एष
ह्येवासाधु
कर्म
कारयति
तं
यमधो
निनीषते
’ (कौ. उ. ३ । ७)
इति
, ‘
य
आत्मनि
तिष्ठन्नात्मानमन्तरो
यमयति
’
इति
च
एवंजातीयका
॥ ४१ ॥
परात्त्विति
;
औपाधिकमपि पूर्वोक्तं कर्तृत्वमीश्वरायत्तमित्याह -
परात्त्विति ।