विषयमनूद्य जीवस्य करणादिपौष्कल्यादीश्वरस्य कारयितृत्वश्रुतेश्च संशयमाह -
यदिति ।
कर्ममीमांसकपक्षं गृह्णाति -
तत्रेति ।
अत्र च ‘एष ह्येव’ इत्यादिश्रुतीनां विधिश्रुत्यादिभिर्विरोधसमाधानेन सर्वनियामके ब्रह्मणि समन्वयसमाधानात्पादादिसङ्गतयः । पूर्वपक्षे दर्शितश्रुतीनां मिथोविरोधादप्रामाण्यादुक्ते ब्रह्मणि समन्वयासिद्धिः । सिद्धान्ते तासामविरोधेन प्रामाण्यात्तत्र तत्सिद्धिः ।
शास्त्रादीश्वरस्यापेक्षणीयतेति शङ्कते -
कस्मादिति ।
कर्तृत्वसामग्र्यामीश्वरोऽन्तर्भूतो न वेति विकल्प्य द्वितीयं निरस्यति -
अपेक्षेति ।
आद्यं प्रत्याह -
अयं हीति ।
कारकान्तराणि तत्तत्कार्यनिर्माणकारणानि करणादीनि तेषां सामग्रीसम्पूर्णता तया सम्पन्नः सहितः सन्निति यावत् ।
एवं कर्तृत्वे सम्भवति नेश्वरापेक्षा केवलव्यतिरेकाभावादित्याह -
तस्येति ।
मा भूदीश्वरस्य शास्त्रवशादपेक्ष्यत्वं, मानान्तरात्तु भविष्यति, तत्राह -
नचेति ।
किञ्चेश्वरो द्वेषपक्षपातरहितः साध्वसाधुनोर्न कर्मणोर्जीवान्प्रवर्तयेत् , तस्य स्वतन्त्रस्य कारुणिकत्वात्कर्मणि साधुन्येव प्रवर्तकत्वात् । अतो विचित्रसर्गासिद्धिरित्याह -
क्लेशेति ।
उक्तोत्तरत्वादनवकाशं चोद्यमिति शङ्कते -
नन्विति ।
तत्रेश्वरस्य जगत्कारणत्वप्रकृतदोषाभावश्चिन्तितः । अत्र तु जीवस्य कर्तृत्वेऽपीश्वरस्य प्रयोजकत्वकृतदोषाभावं सापेक्षत्वमाक्षिप्य चिन्तयतीत्यर्थः ।
भेदमुपेत्याह -
सत्यमिति ।
ईश्वरस्य कारयितृत्वे जीवस्य कर्तृत्वं ततस्तदधीनकर्मापेक्षमीश्वरस्य कारयितृत्वमिति चक्रकादिदोषप्रसङ्गान्नेश्वरस्य सापेक्षत्वादित्यर्थः ।
ईश्वरायत्ते जीवस्य कर्तृत्वे पूर्वपूर्वकर्मवासनासापेक्षमुत्तरोत्तरकर्तृत्वमित्यपि न सिध्यतीत्याह -
अकृतेति ।
जीवस्येश्वरापेक्षाभावे फलितमाह -
तस्मादिति ।
स्वतश्चेदस्य कर्तृत्वं विध्यादिश्रुतिसिद्धं तदा ‘एष ह्येव’ इत्यादिश्रुतिविरोधे समन्वयासिद्धिरित्युपसंहर्तुमितिशब्दः ।
सिद्धान्तयति -
एतामिति ।
प्रतिज्ञां विवृणोति -
अविद्येति ।
जीवस्येश्वरादेव संसारस्य मोक्षस्य च सिद्धिर्भवितुमर्हतीति सम्बन्धः । तस्य परस्मदत्यन्तान्यत्वं निरस्यति -
अविद्येति ।
सैव तिमिरं विद्याप्रकाशमन्तरेणानिराकरणात्तेनान्धः स्वरूपज्ञानहीनश्चिदात्मा तस्यावच्छिन्नस्वभावस्य देहादिसमुदायविषयाविवेकदर्शनं विभ्रमस्तच्छीलस्य विक्षिप्तस्य जीवस्य सतोऽविद्यादशायां संसारस्य पृथक्त्वेन कल्पितादीश्वरात्सिद्धिरिति यावत् ।
तस्य वास्तवपररूपमाह -
परस्मादिति ।
सर्वविषयज्ञानाभावे कथं कारयितृत्वं, तत्राह -
कर्मेति ।
तथापि सर्वत्र संनिध्यभावे कारयितृत्वासिद्धिः, तत्राह -
सर्वेति ।
तथापि तज्ज्ञानाभावे तदसिद्धिः, तत्राह -
साक्षिण इति ।
तदुपपादयति -
चेतयितुरिति ।
ईश्वरस्य कारयितृत्वे स्वगतव्यापारवत्त्वमाशङ्क्योक्तम् -
तदिति ।
संसारस्यानर्थत्वेन हेयत्वार्थं विशिनष्टि -
कर्तृत्वेति ।
कथं बन्धहेतुरीश्वरस्तद्विरुद्धमोक्षहेतुः स्यात् , तत्राह -
तदनुग्रहेति ।
जीवस्य दोषप्रयुक्तत्वात्कारकान्तरसामग्रीमत्त्वादीश्वरस्य कृष्यादिषु कारणत्वाप्रसिद्धेश्च न तदपेक्षं कर्तृत्वमित्याह -
कुत इति ।
सौत्रं हेतुमवतार्य व्याचष्टे -
तदिति ।
केवलव्यतिरेकाभावेऽपि श्रुतेरीश्वरस्य सुखादौ धर्मादेरिव कारणत्वं केवलव्यतिरेकस्य दृष्टकारणक्लृप्तिविषयत्वादागमस्यादृष्टकारणकल्पकत्वेन व्यवस्थानादिति भावः ।
तामेव श्रुतिमाह -
तथाहीति ॥ ४१ ॥