तदक्षराणि व्याकरोति -
तुशब्द इति ।
ईश्वरस्य प्रवर्त्यादृष्टापेक्षया प्रवर्तकत्वे फलितमाह -
ततश्चेति ।
दोषाणामप्रसङ्गमेव प्रकटयति -
जीवेति ।
धर्माधर्माभ्यामेव फलवैषम्यासिद्धेरलमीश्वरेणेत्याशङ्क्य पर्जन्यवदित्युक्तम् । तद्विवृणोति -
यथेति ।
अतिदीर्घा वल्ल्यो गुच्छाः, ह्रस्वा गुल्मा इति भेदः ।
बीजेभ्यो जायमानव्रीह्यादीनां कृतं पर्जन्येनेत्याशङ्क्याह -
न हीति ।
कृतं तर्हि बीजैरित्याशङ्क्याह -
नापीति ।
दार्ष्टान्तिकं विवृणोति -
एवमिति ।
यदि जीवेन कृतः स्वेच्छया कश्चित्प्रयत्नस्तदा तदपेक्षः सन्नीश्वरो विषमं कर्तृत्वं कुर्यात् । न तु तदस्ति, चक्रकापत्तेरिति शङ्कते -
नन्विति ।
किमीश्वरस्य कारयितृत्वे जीवस्य कर्तृत्वमेव नेत्यापाद्यते किं वा तस्य कर्तृत्वे कारयितृत्वमीश्वरस्य नेति, तत्राद्यं प्रत्याह –
नेति ।
न हि गुर्वधीनो माणवको नाध्ययनस्य कर्तेति भावः ।
द्वितीयं दूषयति -
कुर्वन्तं हीति ।
अध्ययनशक्तं प्रत्येवाध्यापकत्वोपलम्भात्क्रियाशक्तिमन्तं जीवं प्रत्यपि कारयितृत्वमीश्वरस्य युक्तमिति भावः ।
चक्रकापत्तिं निरस्याति -
अपिचेति ।
अनवद्यं जीवस्य कर्तृत्वं तत्कृतधर्माधर्मापेक्षया च कारयितृत्वमीश्वरस्येति शेषः ।
तस्य सापेक्षत्वे मानं पृच्छति -
कथमिति ।
तत्र मानोक्तिपरं सूत्रावयवमादत्ते -
विहितेति ।
ईश्वरस्य सापेक्षत्वे विहितस्य निषिद्धस्य चावैयर्थ्यम् , तस्य चेन्नैरपेक्ष्यं तदा तयोरानार्थक्यम् । अतस्तयोरर्थवत्त्वानुपपत्तिरीश्वरस्य सापेक्षत्वसाधिकेत्याह -
एवमिति ।
किमितीश्वरस्य नैरपेक्ष्ये विहितादिवैयर्थ्यं, तत्राह -
ईश्वरइति ।
तयोः स्थाने स एव नियुज्येत यत्ताभ्यां कार्यं तदसावेव कुर्यादिति तयोरानर्थक्यमित्यर्थः ।
जीवं प्रति प्रवर्तकत्वेन निवर्तकत्वेन च तदर्थवत्त्वमाशङ्क्याह -
अत्यन्तेति ।
सर्वात्मना जीवस्येश्वराधीनत्वात्तत्प्रेरितस्य प्रवृत्तिनिवृत्तिभाक्त्वात्कृतं विधिनिषेधाभ्यामित्यर्थः ।
आदिशब्दार्थमाह -
तथेति ।
अत्यन्तं स्वातन्त्र्यादेवं कुर्वन्नपीश्वरो न पर्यनुयोगमर्हतीत्याशङ्क्याह -
ततश्चेति ।
ईश्वरस्य स्वातन्त्र्येण फलहेतुत्वे समीहितासमीहितहेतुभेदविधायि शास्रममानं स्यादित्यर्थः ।
आदिशब्दगृहीतं दोषान्तरमाह -
ईश्वरस्येति ।
पुरुषकारस्य ।
इष्टानिष्टाप्तिहानानुकूलस्य यत्नस्येति यावत् । पुरुषकारवैयर्थ्यं दृष्टान्तयितुं तथेत्युक्तम् । तेषां वैयर्थ्यमिति सम्बन्धः । पूर्वोक्तदोषोऽकृताभ्यागमादिः । तदेवम् ‘एष हि’ इत्यादिश्रुतीनां विध्यादिश्रुतिभिरविरोधात्परस्मिन्नशेषनियन्तरि समन्वयसिद्धिरिति ॥ ४२ ॥