ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
ननु एवमीश्वरस्य कारयितृत्वे सति वैषम्यनैर्घृण्ये स्याताम् , अकृताभ्यागमश्च जीवस्येतिनेत्युच्यते

चोद्यान्तरमनुद्रवति -

नन्विति ।

उत्तरत्वेन सूत्रमवतारयति -

नेतीति ।