अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥ ४३ ॥
जीवेश्वरयोरुपकार्योपकारकभाव उक्तः । स च सम्बद्धयोरेव लोके दृष्टः — यथा स्वामिभृत्ययोः, यथा वा अग्निविस्फुलिङ्गयोः । ततश्च जीवेश्वरयोरप्युपकार्योपकारकभावाभ्युपगमात् किं स्वामिभृत्यवत्सम्बन्धः, आहोस्विदग्निविस्फुलिङ्गवत् इत्यस्यां विचिकित्सायाम् अनियमो वा प्राप्नोति, अथवा स्वामिभृत्यप्रकारेष्वेव ईशित्रीशितव्यभावस्य प्रसिद्धत्वात्तद्विध एव सम्बन्ध इति प्राप्नोति ॥
अतो ब्रवीति अंश इति ।
जीव ईश्वरस्यांशो भवितुमर्हति,
यथाग्नेर्विस्फुलिङ्गः ।
अंश इवांशः ।
न हि निरवयवस्य मुख्योंऽशः सम्भवति ।
कस्मात्पुनः निरवयवत्वात् स एव न भवति ?
नानाव्यपदेशात् । ‘
सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ ‘
एतमेव विदित्वा मुनिर्भवति’ ‘
य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति’
इति च एवंजातीयको भेदनिर्देशो नासति भेदे युज्यते ।
ननु च अयं नानाव्यपदेशः सुतरां स्वामिभृत्यसारूप्ये युज्यत इति,
अत आह —
अन्यथा चापीति ।
न च नानाव्यपदेशादेव केवलादंशत्वप्रतिपत्तिः ।
किं तर्हि ?
अन्यथा चापि व्यपदेशो भवत्यनानात्वस्य प्रतिपादकः ।
तथा ह्येके शाखिनो दाशकितवादिभावं ब्रह्मण आमनन्त्याथर्वणिका ब्रह्मसूक्ते — ‘
ब्रह्म दाशा ब्रह्म दासा ब्रह्मैवेमे कितवाः’
इत्यादिना ।
दाशा य एते कैवर्ताः प्रसिद्धाः,
ये च अमी दासाः स्वामिष्वात्मानमुपक्षपयन्ति,
ये च अन्ये कितवा द्यूतकृतः,
ते सर्वे ब्रह्मैव —
इति हीनजन्तूदाहरणेन सर्वेषामेव नामरूपकृतकार्यकरणसङ्घातप्रविष्टानां जीवानां ब्रह्मत्वमाह ।
तथा अन्यत्रापि ब्रह्मप्रक्रियायामेवायमर्थः प्रपञ्च्यते —
‘त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः’ (श्वे. उ. ४ । ३) इति, ‘
सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’
इति च ।
‘नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुतिभ्यश्च अस्यार्थस्य सिद्धिः ।
चैतन्यं च अविशिष्टं जीवेश्वरयोः,
यथाग्निविस्फुलिङ्गयोरौष्ण्यम् ।
अतो भेदाभेदावगमाभ्यामंशत्वावगमः ॥ ४३ ॥