ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥ ४३ ॥
जीवेश्वरयोरुपकार्योपकारकभाव उक्तः सम्बद्धयोरेव लोके दृष्टःयथा स्वामिभृत्ययोः, यथा वा अग्निविस्फुलिङ्गयोःततश्च जीवेश्वरयोरप्युपकार्योपकारकभावाभ्युपगमात् किं स्वामिभृत्यवत्सम्बन्धः, आहोस्विदग्निविस्फुलिङ्गवत् इत्यस्यां विचिकित्सायाम् अनियमो वा प्राप्नोति, अथवा स्वामिभृत्यप्रकारेष्वेव ईशित्रीशितव्यभावस्य प्रसिद्धत्वात्तद्विध एव सम्बन्ध इति प्राप्नोति

विषयं वक्तुं वृत्तं कीर्तयति -

जीवेति ।

तस्य सम्बन्धापेक्षकत्वमाह -

स चेति ।

सिद्धान्तानुसारिणमपि दृष्टान्तमाह -

यथा वेति ।

उपकार्योपकारकत्वाक्षिप्तं जीवेश्वरसम्बन्धं विषयीकृत्योभयथादृष्टिं हेतुं कृत्वा विचारप्रयोजकं सन्देहमाह -

ततश्चेति ।

नियामकाभावेन पूर्वपक्षाभासं सङ्गृह्णाति -

अनियम इति ।

जीवेश्वरयोरनंशत्वेन प्रदेशवृत्तेः संयोगस्यानुपपत्तेः, समवायस्य च निरस्तत्वात् , कार्यकारणत्वादिहीनतया तादात्म्यस्यापि दुःसम्पादत्वात् , निरंशे चांशासम्भवात् , ‘पादोऽस्य’ इत्यादिश्रुतेरौपचारिकत्वात् , भृत्यस्वामिसम्बन्धस्य च प्रसिद्धत्वात् , अनियमस्य च जघन्यत्वान्नियमेन भृत्यस्वामिलक्षणः सम्बन्धस्तयोरित्याह -

अथवेति ।

अत्र च जीवब्रह्मभेदाभेदश्रुतिविरोधनिरासेनैकरसे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतयः । पूर्वपक्षे भेदाभेदश्रुतीनां विरोधादप्रामाण्यादुक्तसमन्वयासिद्धिः । सिद्धान्ते तासामविरोधात्प्रामाण्यात्तत्सिद्धिः ।