ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॥ ४३ ॥
जीवेश्वरयोरुपकार्योपकारकभाव उक्तः सम्बद्धयोरेव लोके दृष्टःयथा स्वामिभृत्ययोः, यथा वा अग्निविस्फुलिङ्गयोःततश्च जीवेश्वरयोरप्युपकार्योपकारकभावाभ्युपगमात् किं स्वामिभृत्यवत्सम्बन्धः, आहोस्विदग्निविस्फुलिङ्गवत् इत्यस्यां विचिकित्सायाम् अनियमो वा प्राप्नोति, अथवा स्वामिभृत्यप्रकारेष्वेव ईशित्रीशितव्यभावस्य प्रसिद्धत्वात्तद्विध एव सम्बन्ध इति प्राप्नोति
अतो ब्रवीति अंश इतिजीव ईश्वरस्यांशो भवितुमर्हति, यथाग्नेर्विस्फुलिङ्गःअंश इवांशः हि निरवयवस्य मुख्योंऽशः सम्भवतिकस्मात्पुनः निरवयवत्वात् एव भवति ? नानाव्यपदेशात् । ‘सोऽन्वेष्टव्यः विजिज्ञासितव्यः’ ‘एतमेव विदित्वा मुनिर्भवति’ ‘ आत्मनि तिष्ठन्नात्मानमन्तरो यमयतिइति एवंजातीयको भेदनिर्देशो नासति भेदे युज्यतेननु अयं नानाव्यपदेशः सुतरां स्वामिभृत्यसारूप्ये युज्यत इति, अत आहअन्यथा चापीति नानाव्यपदेशादेव केवलादंशत्वप्रतिपत्तिःकिं तर्हि ? अन्यथा चापि व्यपदेशो भवत्यनानात्वस्य प्रतिपादकःतथा ह्येके शाखिनो दाशकितवादिभावं ब्रह्मण आमनन्त्याथर्वणिका ब्रह्मसूक्ते — ‘ब्रह्म दाशा ब्रह्म दासा ब्रह्मैवेमे कितवाःइत्यादिनादाशा एते कैवर्ताः प्रसिद्धाः, ये अमी दासाः स्वामिष्वात्मानमुपक्षपयन्ति, ये अन्ये कितवा द्यूतकृतः, ते सर्वे ब्रह्मैवइति हीनजन्तूदाहरणेन सर्वेषामेव नामरूपकृतकार्यकरणसङ्घातप्रविष्टानां जीवानां ब्रह्मत्वमाहतथा अन्यत्रापि ब्रह्मप्रक्रियायामेवायमर्थः प्रपञ्च्यतेत्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारीत्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः’ (श्वे. उ. ४ । ३) इति, ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्तेइति नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इत्यादिश्रुतिभ्यश्च अस्यार्थस्य सिद्धिःचैतन्यं अविशिष्टं जीवेश्वरयोः, यथाग्निविस्फुलिङ्गयोरौष्ण्यम्अतो भेदाभेदावगमाभ्यामंशत्वावगमः ॥ ४३ ॥

जीवात्मन्यारोपितं कर्तृत्वमीश्वरायत्तमित्युक्तम् । इदानीं निर्धारितयोग्यत्वस्य तस्य ब्रह्मैक्यं साधयति -

अंश इति ।