पूर्वपक्षमनूद्य प्रतिज्ञामवतार्य व्याकरोति -
अत इति ।
अग्नेः सांशत्वादंशांशित्वेऽपि प्रकृते न सांशतेति प्रतिज्ञासिद्धिमाशङ्क्याह -
अंश इति ।
सूत्रसामर्थ्यान्मुख्यमेवांशत्वं जीवस्य किं न स्यात् , तत्राह -
नहीति ।
चोद्यद्वारा सूत्रावयवमादत्ते -
कस्मादिति ।
व्यतिरेकेण व्याकरोति -
स इति ।
आत्यन्तिकाभेदे भेदोक्त्यसिद्धिश्चेत्तदर्थमात्यन्तिको भेदः स्यादिति शङ्कते -
ननु चेति ।
कथञ्चिद्भेदेऽपि यस्य सिद्धिस्तस्यातिशयेन सिद्धिरात्यन्तिके भेदे स्यादित्युक्तम् -
सुतरामिति ।
सूत्रावयवेनोत्तरमाह -
अत इति ।
तस्यार्थमाह -
नचेति ।
अभेदव्यपदेशं विशदयन्दाशकितवादित्वमित्यादि व्याचष्टे -
तथाहीति ।
दाशादिपदार्थोक्तिपूर्वकमुद्देश्यविधेयत्वं प्रकटयन्हीनजन्तूदाहरणतात्पर्यमाह -
दाशा इति ।
उक्तार्थस्फुटीकरणार्थमुदाहरणान्तरमाह -
तथेति ।
वञ्चसि गच्छसि ।
सूत्रात्मैवात्र सर्वात्मत्वेन स्तूयते न परमात्मेत्याशङ्क्य श्रुत्यन्तरमाह -
सर्वाणीति ।
यदास्ते यो नामरूपे निर्मायाभिवदनादि कुर्वन्वर्तते तं विद्वानिहैवामृतो भवतीति सम्बन्धः ।
न केवलं विधिद्वारैवाभेदो बोध्यते किन्तु निषेधद्वाराऽपीत्याह -
नेति ।
न केवलं श्रुतितोऽभेदो न्यायतश्चेत्याह -
चैतन्यं चेति ।
जीवो नात्यन्तं ब्रह्मणो भिद्यते, चिद्रूपत्वात् , ब्रह्मवदेवेत्यर्थः ।
व्यपदेशाभ्यामुपपत्तेश्च फलितमाह -
अत इति ॥ ४३ ॥