मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
तृतीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
स्मरन्ति च ॥ ४७ ॥
स्मरन्ति
च
व्यासादयः
—
यथा
जैवेन
दुःखेन
न
परमात्मा
दुःखायत
इति
; ‘
तत्र
यः
परमात्मा
हि
स
नित्यो
निर्गुणः
स्मृतः
।’,‘
न
लिप्यते
फलैश्चापि
पद्मपत्रमिवाम्भसा
।
कर्मात्मा
त्वपरो
योऽसौ
मोक्षबन्धैः
स
युज्यते
॥’,‘
स
सप्तदशकेनापि
राशिना
युज्यते
पुनः
’
इति
।
चशब्दात्
समामनन्ति
च
—
इति
वाक्यशेषः
—
‘
तयोरन्यः
पिप्पलं
स्वाद्वत्त्यनश्नन्नन्यो
अभिचाकशीति
’ (श्वे. उ. ४ । ६)
इति
,
‘
एकस्तथा
सर्वभूतान्तरात्मा
न
लिप्यते
लोकदुःखेन
बाह्यः
’ (क. उ. २ । २ । ११)
इति
च
॥ ४७ ॥
अत्राह
—
यदि
तर्ह्येक
एव
सर्वेषां
भूतानामन्तरात्मा
स्यात्
,
कथमनुज्ञापरिहारौ
स्यातां
लौकिकौ
वैदिकौ
चेति
।
ननु
च
अंशो
जीव
ईश्वरस्य
इत्युक्तम्
।
तद्भेदाच्चानुज्ञापरिहारौ
तदाश्रयावव्यतिकीर्णावुपपद्येते
।
किमत्र
चोद्यत
इति
,
उच्यते
—
नैतदेवम्
।
अनंशत्वमपि
हि
जीवस्याभेदवादिन्यः
श्रुतयः
प्रतिपादयन्ति
—
‘
तत्सृष्ट्वा
तदेवानुप्राविशत्
’ (तै. उ. २ । ६ । १)
‘
नान्योऽतोऽस्ति
द्रष्टा
’ (बृ. उ. ३ । ७ । २३)
‘
मृत्योः
स
मृत्युमाप्नोति
य
इह
नानेव
पश्यति
’ (बृ. उ. ४ । ४ । १९)
‘
तत्त्वमसि
’ (छा. उ. ६ । ८ । ७)
‘
अहं
ब्रह्मास्मि
’ (बृ. उ. १ । ४ । १०)
इत्येवंजातीयकाः
।
ननु
भेदाभेदावगमाभ्यामंशत्वं
सिध्यतीत्युक्तम्
—
स्यादेतदेवम्
,
यद्युभावपि
भेदाभेदौ
प्रतिपिपादयिषितौ
स्याताम्
।
अभेद
एव
त्वत्र
प्रतिपिपादयिषितः
,
ब्रह्मात्मत्वप्रतिपत्तौ
पुरुषार्थसिद्धेः
।
स्वभावप्राप्तस्तु
भेदोऽनूद्यते
।
न
च
निरवयवस्य
ब्रह्मणो
मुख्योंऽशो
जीवः
सम्भवतीत्युक्तम्
।
तस्मात्पर
एवैकः
सर्वेषां
भूतानामन्तरात्मा
जीवभावेनावस्थित
इत्यतो
वक्तव्या
अनुज्ञापरिहारोपपत्तिः
।
तां
ब्रूमः
—
स्मरन्तीति
;
पारनुमाने श्रुतिस्मृतिविरुद्धतया कालात्ययापदेशं दर्शयति -
स्मरन्तीति ।