ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
स्मरन्ति च ॥ ४७ ॥
अत्राहयदि तर्ह्येक एव सर्वेषां भूतानामन्तरात्मा स्यात् , कथमनुज्ञापरिहारौ स्यातां लौकिकौ वैदिकौ चेतिननु अंशो जीव ईश्वरस्य इत्युक्तम्तद्भेदाच्चानुज्ञापरिहारौ तदाश्रयावव्यतिकीर्णावुपपद्येतेकिमत्र चोद्यत इति, उच्यतेनैतदेवम्अनंशत्वमपि हि जीवस्याभेदवादिन्यः श्रुतयः प्रतिपादयन्तितत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) मृत्योः मृत्युमाप्नोति इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) तत्त्वमसि’ (छा. उ. ६ । ८ । ७) अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) इत्येवंजातीयकाःननु भेदाभेदावगमाभ्यामंशत्वं सिध्यतीत्युक्तम्स्यादेतदेवम् , यद्युभावपि भेदाभेदौ प्रतिपिपादयिषितौ स्याताम्अभेद एव त्वत्र प्रतिपिपादयिषितः, ब्रह्मात्मत्वप्रतिपत्तौ पुरुषार्थसिद्धेःस्वभावप्राप्तस्तु भेदोऽनूद्यते निरवयवस्य ब्रह्मणो मुख्योंऽशो जीवः सम्भवतीत्युक्तम्तस्मात्पर एवैकः सर्वेषां भूतानामन्तरात्मा जीवभावेनावस्थित इत्यतो वक्तव्या अनुज्ञापरिहारोपपत्तिःतां ब्रूमः

अंशांशित्वमुपेत्यांशित्वहेतोरप्रयोजकत्वाद्युक्तम् । इदानीमंश इत्युक्तमाक्षिप्य समाधातुं स्वरूपैक्यमादायाक्षिपति -

अत्रेति ।

कथमित्यस्मादुपरिष्टात्तर्हीति सम्बध्यते । अनुज्ञादिव्यवस्थानुपपत्त्या स्वरूपभेदः स्यादित्यर्थः ।

आक्षेप्तुर्विवक्षितमज्ञात्वा शङ्कते -

नन्विति ।

अंशांशित्वे फलितमाह -

तदिति ।

तेषामंशानां जीवानामंशिनः परस्मान्मिथश्च भेदादिति यावत् ।

अनुज्ञादेरेवं सिद्धौ चोद्यासिद्धिरनुज्ञादिविषये फलतीत्याह -

किमिति ।

आक्षेप्ता प्रत्याह -

उच्यत इति ।

जीवस्येश्वरांशत्वमाश्रित्यानुज्ञादेः सिद्धिरुक्ता, तां निरस्यति -

नैतदिति ।

अभेदवादिनीः श्रुतीरनुक्रामति -

तदित्यादिना ।

व्यपदेशद्वयमादायोक्तं सिद्धान्ती स्मारयति -

नन्विति ।

उभयदृष्ट्यांऽशत्वमुभयोः प्रतिपाद्यत्वे स्यात् । न च तदस्तीत्याह -

स्यादिति ।

भेदाभेदयोरभेदं निर्धारयितुमत्रेत्युक्तम् । तस्यैव प्रतिपाद्यत्वे हेतुमाह -

ब्रह्मेति ।

भेदोऽपि प्रतिपाद्यतामभेदवदित्याशङ्क्याह -

स्वभावेति ।

अविद्या स्वभावः ।

इतश्चाभेदस्यैव प्रतिपाद्यतेत्याह -

नचेति ।

तस्यैव प्रतिपाद्यत्वे फलितमाह -

तस्मादिति ।

स्मरूपैक्ये स्थिते पूर्वोक्तानुपपत्तितादवस्थ्यमित्याह -

इत्यत इति ।

अनुज्ञासिद्धये स्वरूपभेदे वाच्ये सिद्धान्ती सूत्रेणोत्तरमाह -

तामिति ॥ ४८ ॥