वैदिकानुज्ञापरिहारौ ज्ञानसौकर्यार्थमुदाहरति -
ऋताविति ।
लौकिकावपि तौ दर्शयति -
एवमिति ।
लौकिकवैदिकानुज्ञादेरुक्तरूपत्वेऽपि कथमैकात्म्ये तयोः सिद्धिरित्याशङ्क्याह -
एवमिति ।
आत्मनो देहेन सम्बन्धेऽपि कथमुभयोः सिद्धिः, तत्राह -
देहैरिति ।
आत्मनोऽसङ्गस्य न तैः सङ्गतिरित्याह -
क इति ।
असङ्गत्वेऽपि तस्य देहादिसम्बन्धं दर्शयति -
देहादिरिति ।
उक्ते सम्बन्धे मानमाह -
दृष्टा चेति ।
तस्या अविद्यात्मकत्वेन निवृत्तत्वान्नानुज्ञादिप्रयोजकतेत्याशङ्क्य सम्यग्ज्ञानात्प्रागूर्ध्वं वा तस्या निवृत्तिरिति विकल्प्याद्यं दूषयति -
नहीति ।
अविद्यात्मकत्वात्तस्याः सम्यग्ज्ञानातिरिक्तविरोध्यभावादित्यर्थः ।
निवारकान्तराभावं तुशब्देन परामृश्य सर्वत्रासङ्कुचद्वृत्तित्वमुक्तसम्बन्धस्याह -
प्राक्त्विति ।
अज्ञानावस्थायां देहादियोगस्यानिवृत्तत्वे फलितमाह -
तदेवमिति ।
विशेषो भेदः ।
द्वितीयमालम्बते -
सम्यगिति ।
सम्यग्दर्शनं किमात्मैक्यधीः किं वा देहातिरिक्तधीः । नाद्यः, तद्वतो देहादिसम्बन्धनिवृत्तेरनुज्ञाद्यानर्थक्यस्येष्टत्वादित्याह -
नेति ।
अनुपपत्तिमेव वक्तुं सामान्यन्यायमाह -
हेयेति ।
तथापि कथमात्मैक्यदर्शिनो नियोज्यत्वासिद्धिः, तत्राह -
आत्मनस्त्विति ।
आत्मानतिरिक्ते विषये नियोज्यत्वमाशङ्क्याहेयोपादेयत्वादात्मनो नैवमित्याह -
नचेति ।
द्वितीयं शङ्कते -
शरीरेति ।
व्यतिरेकादर्शने नियोज्यत्वासिद्धेः सति तस्मिन्देहासम्बन्धान्नियोगायोगादनुज्ञाद्यानर्थक्यमित्यर्थः ।
देहाद्व्यतिरेकदर्शिनोऽपि तत्संहतत्वाभिमानिनो नियोज्यत्वयोगादनुज्ञादेरर्थवत्तेत्याह -
नेत्यादिना ।
तदेव विभजते -
सत्यमिति ।
अङ्गीकृतं भागं दर्शयति -
व्यतिरेकेति ।
तर्हि देहादियोगस्य निवृतेरनुज्ञाद्यसिद्धिः, तत्राह -
तथापीति ।
असंहतत्वेऽपि तद्दर्शनाभावे दृष्टान्तमाह -
व्योमादिवदिति ।
व्यतिरेकदर्शिनो नियोज्यत्वं चेदविशेषादैक्यदर्शिनोऽपि स्यादित्याशङ्क्याह -
नहीति ।
देहादिष्वसंहतत्वदर्शिनः संहतत्वधीशून्यस्य सुषुप्तस्येति यावत् ।
तर्हि सम्यग्दर्शिनो विधिनिषेधाभावाद्यथेष्टचेष्टापत्तिः, नेत्याह -
नचेति ।
विषयाभिनिविष्टचेतसो ज्ञानानुदयादवश्यं साधकावस्थायामेवाभिनिवेशत्यागेन भवितव्यम् । तस्य पुनः सम्यग्ज्ञानोदयेऽपि पूर्ववासनातो विषयाभिनिवेशाभावान्नियतप्रवृत्तेर्न यथेष्टचेष्टेत्यर्थः ।
प्रसङ्गागतं त्यक्त्वा प्रकृतमुपसंहरति -
तस्मादिति ।
उपाधिवशादनुज्ञापरिहारावित्यत्र दृष्टान्तमाह -
ज्योतिरिति ।
क्रव्यं मांसमत्तीति श्मशानादिसम्बन्धी वह्निरत्र क्रव्यादित्युच्यते ॥ ४८ ॥