ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
वियदादिविषयः श्रुतिविप्रतिषेधस्तृतीयेन पादेन परिहृतःचतुर्थेन इदानीं प्राणविषयः परिह्रियतेतत्र तावत्तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इति, तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इति एवमादिषु उत्पत्तिप्रकरणेषु प्राणानामुत्पत्तिर्न आम्नायतेक्वचिच्चानुत्पत्तिरेव एषामाम्नायते, असद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १)तदाहुः किं तदसदासीदित्यृषयो वाव तेऽग्रेऽसदासीत्तदाहुः के ते ऋषय इतिप्राणा वाव ऋषयः’ — इत्यत्र प्रागुत्पत्तेः प्राणानां सद्भावश्रवणात्अन्यत्र तु प्राणानामप्युत्पत्तिः पठ्यते — ‘यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाःइति, एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि ’ (मु. उ. २ । १ । ३) इति, सप्त प्राणाः प्रभवन्ति तस्मात्’ (मु. उ. २ । १ । ८) इति, प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नम्’ (प्र. उ. ६ । ४) इति एवमादिप्रदेशेषुतत्र श्रुतिविप्रतिषेधादन्यतरनिर्धारणकारणानिरूपणाच्च अप्रतिपत्तिः प्राप्नोतिअथवा प्रागुत्पत्तेः सद्भावश्रवणाद्गौणी प्राणानामुत्पत्तिश्रुतिरिति प्राप्नोतिअत उत्तरमिदम् पठति

पूर्वोत्तरपादसङ्गतिमाह -

वियदादीति ।

प्राणविषयः ।

प्राणोत्पत्तिसङ्ख्यातत्त्वादिविषय इत्यर्थः ।

सति विरोधे तत्परिहाराय प्रयतितव्यमिति मत्वा प्रथमं प्राणोत्पत्तिविषयं विरोधमुदाहरति -

तत्रेति ।

क्वचिदुत्पत्त्यश्रवणमाकाशस्येवोत्पत्त्यभावासाधकत्वात्किमित्युद्भावितमित्याशङ्क्यानुत्पत्तिवाक्यसहायत्वेनेत्याह -

क्वचिच्चेति ।

शून्यवादमाशङ्क्याह -

तदिति ।

प्रसिद्धानामृषीणां प्रसङ्गं प्रत्याह -

तदित्यादिना ।

कथमत्र प्राणानामनुत्पत्त्याम्नानं, तद्वाचकपदाभावात्तत्राह -

प्रागिति ।

विप्रतिपत्त्यर्थमुत्पत्तिवाक्यं दर्शयति –

अन्यत्रेति ।

विप्रतिपत्त्यर्थमुत्पत्तिवाक्यं दर्शयति -

अन्यत्रेति ।

विप्रतिपत्तेरेकादशेन्द्रियाणामुत्पत्तिरस्ति न वेति संशीतावनध्यवसायेन पूर्वपक्षयति -

तत्रेति ।

नच वियदधिकरणन्यायेन निर्णयः, प्राणानां प्रलये सत्त्वश्रुतेर्वियदमृतत्वादिश्रुतिवदवान्तरप्रलयाभिप्रायेण नयनप्रकाराज्ञानादिति भावः ।

श्रुतीनाममानत्वे शङ्किते गौणवाद्याह -

अथवेति ।

प्रलये प्राणव्यवहाराभावादुत्पत्तिकाले तद्भावात्तद्विषयतया जन्मश्रुतिरन्यथासिद्धा । प्राणानां प्रागवस्थानश्रवणं तु तेषां जन्माभावे लिङ्गम् , अनन्यथासिद्धतया बलीयस्त्वात्तज्जन्माभावसाधकमिति भावः ।

अत्र च प्राणोत्पत्त्यनुत्पत्तिश्रुतीनां मिथोविरोधनिषेधेन मूलकारणे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतयः । पूर्वपक्षे तासां विरोधादप्रामाण्यात्तत्र समन्वयासिद्धिः । सिद्धान्ते त्वविरोधेन तत्सिद्धिः । पूर्वपक्षमनुभाष्य सिद्धान्तयति -

अत इति ।