ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
तथा प्राणाः ॥ १ ॥
तथा प्राणा इतिकथं पुनरत्र तथा इत्यक्षरानुलोम्यम् , प्रकृतोपमानाभावात्सर्वगतात्मबहुत्ववादिदूषणम् अतीतानन्तरपादान्ते प्रकृतम्तत्तावन्नोपमानं सम्भवति, सादृश्याभावात्सादृश्ये हि सति उपमानं स्यात्यथा सिंहस्तथा बलवर्मेतिअदृष्टसाम्यप्रतिपादनार्थमिति यद्युच्येतयथा अदृष्टस्य सर्वात्मसन्निधावुत्पद्यमानस्यानियतत्वम् , एवं प्राणानामपि सर्वात्मनः प्रत्यनियतत्वमितितदपि देहानियमेनैवोक्तत्वात्पुनरुक्तं भवेत् जीवेन प्राणा उपमीयेरन् , सिद्धान्तविरोधात्जीवस्य हि अनुत्पत्तिराख्याता, प्राणानां तु उत्पत्तिराचिख्यासितातस्मात्तथा इत्यसम्बद्धमिव प्रतिभातिउदाहरणोपात्तेनाप्युपमानेन सम्बन्धोपपत्तेःअत्र प्राणोत्पत्तिवादिवाक्यजातमुदाहरणम्अस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति’ (बृ. उ. २ । १ । २०) इत्येवंजातीयकम्तत्र यथा लोकादयः परस्माद्ब्रह्मण उत्पद्यन्ते, तथा प्राणा अपीत्यर्थःतथाएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’ (मु. उ. २ । १ । ३) इत्येवमादिष्वपि खादिवत्प्राणानामुत्पत्तिरिति द्रष्टव्यम्अथवा पानव्यापच्च तद्वत्’ (जै. सू. ३ । ४ । १५) इत्येवमादिषु व्यवहितोपमानसम्बन्धस्याप्याश्रितत्वात्यथा अतीतानन्तरपादादावुक्ता वियदादयः परस्य ब्रह्मणो विकाराः समधिगताः, तथा प्राणा अपि परस्य ब्रह्मणो विकारा इति योजयितव्यम्कः पुनः प्राणानां विकारत्वे हेतुः ? श्रुतत्वमेवननु केषुचित्प्रदेशेषु प्राणानामुत्पत्तिः श्रूयत इत्युक्तम्तदयुक्तम् , प्रदेशान्तरेषु श्रवणात् हि क्वचिदश्रवणमन्यत्र श्रुतं निवारयितुमुत्सहतेतस्माच्छ्रुतत्वाविशेषादाकाशादिवत्प्राणा अप्युत्पद्यन्त इति सूक्तम् ॥ १ ॥

भूतभोक्तृविषयश्रुतिविरोधं पूर्वपादे परिहृत्य भौतिकेन्द्रियादिश्रुतिविरोधं परिहर्तुं पादान्तरमवतारयन्पूर्वाधिकरणे कर्तृस्वरूपं विचार्य तदुपकरणानामिन्द्रियाणामुत्पत्ति साधयति -

तथेति ।