ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
तथा प्राणाः ॥ १ ॥
तथा प्राणा इतिकथं पुनरत्र तथा इत्यक्षरानुलोम्यम् , प्रकृतोपमानाभावात्सर्वगतात्मबहुत्ववादिदूषणम् अतीतानन्तरपादान्ते प्रकृतम्तत्तावन्नोपमानं सम्भवति, सादृश्याभावात्सादृश्ये हि सति उपमानं स्यात्यथा सिंहस्तथा बलवर्मेतिअदृष्टसाम्यप्रतिपादनार्थमिति यद्युच्येतयथा अदृष्टस्य सर्वात्मसन्निधावुत्पद्यमानस्यानियतत्वम् , एवं प्राणानामपि सर्वात्मनः प्रत्यनियतत्वमितितदपि देहानियमेनैवोक्तत्वात्पुनरुक्तं भवेत् जीवेन प्राणा उपमीयेरन् , सिद्धान्तविरोधात्जीवस्य हि अनुत्पत्तिराख्याता, प्राणानां तु उत्पत्तिराचिख्यासितातस्मात्तथा इत्यसम्बद्धमिव प्रतिभातिउदाहरणोपात्तेनाप्युपमानेन सम्बन्धोपपत्तेःअत्र प्राणोत्पत्तिवादिवाक्यजातमुदाहरणम्अस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति’ (बृ. उ. २ । १ । २०) इत्येवंजातीयकम्तत्र यथा लोकादयः परस्माद्ब्रह्मण उत्पद्यन्ते, तथा प्राणा अपीत्यर्थःतथाएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’ (मु. उ. २ । १ । ३) इत्येवमादिष्वपि खादिवत्प्राणानामुत्पत्तिरिति द्रष्टव्यम्अथवा पानव्यापच्च तद्वत्’ (जै. सू. ३ । ४ । १५) इत्येवमादिषु व्यवहितोपमानसम्बन्धस्याप्याश्रितत्वात्यथा अतीतानन्तरपादादावुक्ता वियदादयः परस्य ब्रह्मणो विकाराः समधिगताः, तथा प्राणा अपि परस्य ब्रह्मणो विकारा इति योजयितव्यम्कः पुनः प्राणानां विकारत्वे हेतुः ? श्रुतत्वमेवननु केषुचित्प्रदेशेषु प्राणानामुत्पत्तिः श्रूयत इत्युक्तम्तदयुक्तम् , प्रदेशान्तरेषु श्रवणात् हि क्वचिदश्रवणमन्यत्र श्रुतं निवारयितुमुत्सहतेतस्माच्छ्रुतत्वाविशेषादाकाशादिवत्प्राणा अप्युत्पद्यन्त इति सूक्तम् ॥ १ ॥

सौत्रं तथाशब्दमाक्षिपति -

कथमिति ।

आनुलोम्यमाञ्जस्यम् । कथं प्रकृतोपमानाभावः, तत्र किं परदूषणं प्राणानामुपमानमाहोस्विददृष्टमथवा जीवः । नाद्य इत्याह -

सर्वेति ।

परपक्षदूषणस्य प्राणानां च सादृश्याभावेऽपि किमित्युपमानोपमेयभावो न स्यात् , तत्राह -

सादृश्ये हीति ।

कल्पान्तरमाह -

अदृष्टेति ।

तेन साम्यप्रतिपादनमेव प्रकटयति -

यथेति ।

पुनरुक्त्या दूषयति -

तदपीति ।

तृतीयं प्रत्यह -

नचेति ।

सिद्धान्तविरोधं स्फोरयति -

जीवस्येति ।

आक्षेपमुपसंहरति -

तस्मादिति ।

सूत्राक्षराक्षेपं परिहरति -

नेति ।

किं तदुदाहरणं, तदाह -

अत्रेति ।

कथं तदुपात्तेनोपमानं, तदाह -

तत्रेति ।

उक्तन्यायमाथर्वणादिवाक्येष्वपि योजयति -

तथेति ।

संनिहितमेवोपमानमित्यङ्गीकृत्यैकवाक्योपात्तत्वेन सांनिध्यमुक्तम् । इदानीं नायं नियमः, व्यवहितोपमानस्यापि मीमांसकैरिष्टत्वादित्याह -

अथवेति ।

अस्ति तावदश्वदाननिमित्तेष्टिः ‘वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णाति यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेत्’ इत्याम्नाता । सा किं लौकिकेऽश्वदाने वैदिकेऽश्वदाने वेति सन्देहे ‘दोषात्त्विष्टिर्लौकिके स्याच्छास्त्राद्धि वैदिके न दोषः स्यात्’ इति पूर्वपक्षसूत्रम् । अस्यार्थः - अश्वदाने लौकिके दोषनिर्घातार्था प्रकृतेष्टिरेष्टव्या, तत्रैव ‘न केसरिणो ददाति’ इति निषेधातिक्रमकृतस्य दोषस्य सम्भवात् । वैदिकेऽश्वदाने सामान्यनिषेधानवकाशान्न तत्कृतो दोषः स्यात् । पौण्डरीकेऽश्वसहस्रं दक्षिणेत्यादिविशेषशास्त्राद्वैदिकाश्वदानस्य निर्दोषत्वसिद्धेरिति । राद्धान्तसूत्रम् - ‘अर्थवादोऽनुपपातात्तस्माद्यज्ञे प्रतीयते’ इति । तस्यार्थः - लौकिकेऽश्वदाने सति जलोदररूपवरुणग्रहदोषो नोपपतति मानाभावात् । न चेदमेव वाक्यमत्र मानम् , अश्वदाने जलोदराख्यो दोषस्तन्निर्घातार्था चेष्टिरित्यर्थभेदे वाक्यभेदात् । नच वरुणशब्दो वृणोतीति निषेधातिक्रमकृतदोषानुवादीति कुतो वाक्यभेद, तथा सति प्रसिद्धित्यागप्रसङ्गात्तत्त्यागेच वैदिकेऽपि दाने तुरगत्यागजं क्लेशमात्रमुक्तव्युत्पत्त्या वरुणशब्दवाच्यं स्यात् । तस्माद्यावद्वरुणगृहीतस्य वरुणोन्मोचने श्रेयस्तावदस्यामिष्टावित्यर्थवादोऽयम् । तथाच यज्ञसंबन्धिन्यश्वदाने प्रतीयते वारुणीष्टिरिति स्थिते चैवं प्रतिग्रहीतुर्दातुर्वा सेष्टिरिति सन्देहे पूर्वपक्षितम् - ‘अचोदितं च कर्म भेदात्’ इति । तस्यार्थः - दातुरचोदितमिष्टिकर्म यः प्रतिगृह्णाति स निर्वपेदिति प्रतिग्रहीत्रा तस्य भेदाद्विशेषणादिति । ‘सा लिङ्गादार्त्विजे स्यात् ‘ इति सिद्धान्तसूत्रम् । ऋत्विजामयमित्यार्त्विजो यजमानस्तस्मिन्कर्तरि सा वारुणीष्टिःस्यात् , ‘प्रजापतिर्वरुणायाश्वमनयत्’ इत्युपक्रमे दातुः सङ्कीर्तनाल्लिङ्गात् । नच दातरि प्रतिगृह्णातीति विरुद्धं, सम्प्रदानप्रेरणादिना तस्यापि प्रतिग्रहकर्तृत्वादित्यर्थः । एवं दातुरिष्टिरिति व्यवस्थाप्योक्तम् ‘पानव्यापच्च तद्वत्’ इति । ‘सौमेन्द्रं चरुं निर्वपेच्छ्यामाकं सोमवामी’ इत्यत्र लौकिकसोमपानवमने वा वैदिकसोमपानवमने वा सौमेन्द्रश्चरुरिति सन्देहे सति प्रतिग्रहेष्ट्याद्यधिकरणपूर्वपक्षवल्लौकिके धातुसाम्यार्थं सोमस्य पाने यदि व्यापद्वमनं भवति तदा तस्मिल्लौकिके वमने यागो विधीयते । ‘इन्द्रियेण वीर्येण व्यृध्यते यः सोमं वमति’ इति दोषाद्वमननिमित्तेन्द्रियशोषस्य च दर्शनान्न वरुणग्रहणवदप्राप्तिः । वैदिेके तु सोमपाने शेषप्रतिपत्तेर्जातत्वाद्वमनेऽपि न दोष इति पूर्वपक्षयित्वा राद्धान्तितम् - ‘दोषात्तु वैदिके स्यादर्थाद्धि लौकिके न दोषः स्यात् ‘ इति । वैदिके हि सोमपानवमने सौमेन्द्रश्चरुः स्यात् । ‘मा मे वाङ्नाभिमतिगाः’ इति मन्त्रलिङ्गाद्वमने कर्मवैगुण्याद्दोषावगमात् । लौकिके तु सोमपानवमने न कश्चिद्दोषः स्यात्तस्य धातुसाम्यार्थत्वात्तज्जन्येन्द्रियशोषस्य धातुसाम्यकरत्वेन गुणत्वात् । श्रूयते चेन्द्रियेणेत्यादिना वैदिकस्य पानस्य व्यापदि दोषः, स च वमनेन सोमसंस्कारे विनष्टे सत्युपपद्यते, तस्माद्वैदिके वमने याग इत्यर्थः । ‘तत्सर्वत्राविशेषात्’ ‘स्वामिनो वा तदर्थत्वात् ‘ इत्येवंविधानि पूर्वोत्तरपक्षसूत्राण्यादिशब्देन गृह्यन्ते । तेषु व्यवहितोपमानसम्बन्धस्याभियुक्तैरिष्टत्वादत्रापि व्यवहितोपमानसम्बन्धः सम्भवतीति भाष्यार्थः ।

व्यवहितोपमानसम्बन्धितया तथाशब्दार्थमुक्त्वा सूत्रं योजयति -

यथेति ।

प्रतिज्ञामात्रस्य सूत्रे दृष्टेरिष्टं हेतुं प्रश्नपूर्वकमाह -

कः पुनरिति ।

पूर्ववादी पूर्वोक्तं स्मारयति -

नन्विति ।

‘अश्रवणं श्रवणानुसारेण नेयम्’ इति गुणोपसंहारन्यायेन दूषयति -

तदिति ।

कुतस्तेनैव न्यायेन श्रवणमश्रवणानुरोधेन न नीयते, वियदधिकरणविरोधादित्याह -

नहीति ।

श्रुत्यनुरोधेनाश्रुतेर्नेतव्यत्वे फलितमाह -

तस्मादिति ॥ १ ॥