मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
चतुर्थः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
गौण्यसम्भवात् ॥ २ ॥
यत्पुनरुक्तं
प्रागुत्पत्तेः
सद्भावश्रवणाद्गौणी
प्राणानामुत्पत्तिश्रुतिरिति
,
तत्प्रत्याह
—
गौण्यसम्भवादिति
।
गौण्या
असम्भवो
गौण्यसम्भवः
—
न
हि
प्राणानामुत्पत्तिश्रुतिर्गौणी
सम्भवति
,
प्रतिज्ञाहानिप्रसङ्गात्
—
‘
कस्मिन्नु
भगवो
विज्ञाते
सर्वमिदं
विज्ञातं
भवति
’ (मु. उ. १ । १ । ३)
इति
हि
एकविज्ञानेन
सर्वविज्ञानं
प्रतिज्ञाय
तत्साधनायेदमाम्नायते
‘
एतस्माज्जायते
प्राणः
’ (मु. उ. २ । १ । ३)
इत्यादि
।
सा
च
प्रतिज्ञा
प्राणादेः
समस्तस्य
जगतो
ब्रह्मविकारत्वे
सति
प्रकृतिव्यतिरेकेण
विकाराभावात्सिध्यति
।
गौण्यां
तु
प्राणानामुत्पत्तिश्रुतौ
प्रतिज्ञा
इयं
हीयेत
।
तथा
च
प्रतिज्ञातार्थ
मुपसंहरति
—
‘
पुरुष
एवेदं
विश्वं
कर्म
तपो
ब्रह्म
परामृतम्
’ (मु. उ. २ । १ । १०)
इति
,
‘
ब्रह्मैवेदं
विश्वमिदं
वरिष्ठम्
’ (मु. उ. २ । २ । १२)
इति
च
।
तथा
‘
आत्मनो
वा
अरे
दर्शनेन
श्रवणेन
मत्या
विज्ञानेनेदꣳ
सर्वं
विदितम्
’
इत्येवंजातीयकासु
श्रुतिषु
एषैव
प्रतिज्ञा
योजयितव्या
।
कथं
पुनः
प्रागुत्पत्तेः
प्राणानां
सद्भावश्रवणम्
?
नैतन्मूलप्रकृतिविषयम्
,
‘
अप्राणो
ह्यमनाः
शुभ्रो
ह्यक्षरात्परतः
परः
’ (मु. उ. २ । १ । २)
इति
मूलप्रकृतेः
प्राणादिसमस्तविशेषरहितत्वावधारणात्
।
अवान्तरप्रकृतिविषयं
त्वेतत्
स्वविका
रापेक्षं
प्रागुत्पत्तेः
प्राणानां
सद्भावावधारणमिति
द्रष्टव्यम्
,
व्याकृत
विषयाणामपि
भूयसीनामवस्थानां
श्रुतिस्मृत्योः
प्रकृतिविकारभावप्रसिद्धेः
।
विय
दधिकरणे
हि
‘
गौण्यसम्भवात्
’
इति
पूर्वपक्षसूत्रत्वात्
—
गौणी
जन्मश्रुतिः
,
असम्भवात्
—
इति
व्याख्यातम्
।
प्रतिज्ञाहान्या
च
तत्र
सिद्धान्तोऽभिहितः
।
इह
तु
सिद्धान्तसूत्रत्वात्
—
गौण्या
जन्मश्रुतेरसम्भवात्
—
इति
व्याख्यातम्
।
तदनुरोधेन
तु
इहापि
—
गौणी
जन्मश्रुतिः
,
असम्भवात्
—
इति
व्याचक्षाणैः
प्रतिज्ञाहानिरुपेक्षिता
स्यात्
॥ २ ॥
गौणीति
;
विरोधवादिनं प्रतिबोध्य गौणवादिनं प्रत्याह -
गौणीति ।