ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
गौण्यसम्भवात् ॥ २ ॥
यत्पुनरुक्तं प्रागुत्पत्तेः सद्भावश्रवणाद्गौणी प्राणानामुत्पत्तिश्रुतिरिति, तत्प्रत्याहगौण्यसम्भवादितिगौण्या असम्भवो गौण्यसम्भवः हि प्राणानामुत्पत्तिश्रुतिर्गौणी सम्भवति, प्रतिज्ञाहानिप्रसङ्गात्कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इति हि एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तत्साधनायेदमाम्नायते एतस्माज्जायते प्राणः’ (मु. उ. २ । १ । ३) इत्यादिसा प्रतिज्ञा प्राणादेः समस्तस्य जगतो ब्रह्मविकारत्वे सति प्रकृतिव्यतिरेकेण विकाराभावात्सिध्यतिगौण्यां तु प्राणानामुत्पत्तिश्रुतौ प्रतिज्ञा इयं हीयेततथा प्रतिज्ञातार्थमुपसंहरतिपुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्’ (मु. उ. २ । १ । १०) इति, ब्रह्मैवेदं विश्वमिदं वरिष्ठम्’ (मु. उ. २ । २ । १२) इति तथाआत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदꣳ सर्वं विदितम्इत्येवंजातीयकासु श्रुतिषु एषैव प्रतिज्ञा योजयितव्याकथं पुनः प्रागुत्पत्तेः प्राणानां सद्भावश्रवणम् ? नैतन्मूलप्रकृतिविषयम् , अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः’ (मु. उ. २ । १ । २) इति मूलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वावधारणात्अवान्तरप्रकृतिविषयं त्वेतत् स्वविकारापेक्षं प्रागुत्पत्तेः प्राणानां सद्भावावधारणमिति द्रष्टव्यम् , व्याकृतविषयाणामपि भूयसीनामवस्थानां श्रुतिस्मृत्योः प्रकृतिविकारभावप्रसिद्धेःवियदधिकरणे हिगौण्यसम्भवात्इति पूर्वपक्षसूत्रत्वात्गौणी जन्मश्रुतिः, असम्भवात्इति व्याख्यातम्प्रतिज्ञाहान्या तत्र सिद्धान्तोऽभिहितःइह तु सिद्धान्तसूत्रत्वात्गौण्या जन्मश्रुतेरसम्भवात्इति व्याख्यातम्तदनुरोधेन तु इहापिगौणी जन्मश्रुतिः, असम्भवात्इति व्याचक्षाणैः प्रतिज्ञाहानिरुपेक्षिता स्यात् ॥ २ ॥

सूत्रव्यावर्त्यमनूद्य तदुत्तरत्वेनावतार्य विभजते -

यदित्यादिना ।

काऽसौ प्रतिज्ञा, कथं वा प्राणानामुत्पत्तेर्गौणत्वे तद्धानिः, तत्राह -

कस्मिन्निति ।

कथमेतस्मादित्यादिना प्रतिज्ञा समर्थ्यते, तत्राह -

सा चेति ।

विपक्षे दोषमाह -

गौण्यां त्विति ।

प्रतिज्ञाऽपि गौणीति न तदर्थं प्राणोत्पत्तिर्मुख्या वाच्येत्याशङ्क्योपक्रमोपसंहारालोचनया विवक्षिताद्वितीयत्वानुरोधेन प्रतिज्ञाया गौणत्वायोगान्मुख्यैव प्राणोत्पत्तिरित्याह -

तथाचेति ।

प्रतिज्ञाया मुख्यत्वसिद्धये भूयःसु प्रदेशेषु दृष्टत्वं हेत्वन्तरमाह -

तथेति ।

प्राणानामुत्पत्तिश्चेत्प्रागवस्थायां सत्त्वश्रुतिर्विरुध्येतेति शङ्कते -

कथमिति ।

नैतद्वाक्यं ब्रह्मणो मूलकारणस्य प्राणसद्भावार्थं, तस्य श्रुत्या सर्वविशेषराहित्यसिद्धेरित्याह -

नैतदिति ।

किंविषयं तर्हि वाक्यं, तत्राह -

अवान्तरेति ।

हिरण्यगर्भोऽवान्तरप्रकृतिस्तत्प्राणास्तित्वविषयमेतद्वाक्यमिति योजना ।

हिरण्यगर्भस्यापि विकारत्वात्कथं विकारासत्त्वोक्तिपूर्वकं प्राणसत्त्वावधारणं, तत्राह -

स्वविकारेति ।

अवान्तरलये हिरण्यगर्भकार्यसमुदायासत्त्वापेक्षया तदीयप्राणसत्त्वावधारणमित्यर्थः । ‘एतस्माज्जायते प्राणः’ इत्यादाविन्द्रियाणां श्रुत्यैव जन्मोक्तम् । ‘तदाहुः’ इत्यादौ तु प्रागुत्पत्तेस्तेषामवस्थानं जन्माभावे लिङ्गं, तत्र लिङ्गस्य श्रुत्या बाधायामन्यतरस्यात्यन्तबाधकल्पनात् ‘वरं प्रबलानुरोधेन दुर्बलस्य विषयव्यवस्थाकल्पनम्’ इति न्यायेन वियदादिभिः सहेन्द्रियाणामुत्पत्त्याम्नानान्महाप्रलये तदुत्पत्तिरवान्तरप्रलये त्वनुत्पत्तिरिति श्रुतिलिङ्गयोर्विषयव्यवस्थेति भावः ।

ब्रह्मण एव सर्वप्रकृतित्वान्नावान्तरप्रकृतौ मानमित्याशङ्क्याह -

व्याकृतेति ।

‘हिरण्यगर्भः समवर्तताग्रे', ‘आदिकर्ता स भूतानाम्’ इत्यादिश्रुतिस्मृत्योः कार्यावच्छिन्नानामपि मूलकारणावस्थाविशेषाणां हिरण्यगर्भादीनां प्रकृतिविकारभावेन प्रसिद्धेरवान्तरप्रकृतिरस्तीत्यर्थः ।

तदेवं प्राणसत्त्वश्रुतेरवान्तरप्रलयविषयत्वान्महाप्रलयानन्तरं प्राणोत्पत्तिश्रुतेर्न गौणतेति स्वाभिप्रायेण सूत्रं व्याख्याय वियदधिकरणवदिहापि किं न व्याख्यातमित्याशङ्क्य विशेषमाह -

वियदिति ।

एकस्य सूत्रस्यैकार्थत्वयोगे किमर्थद्वयोक्त्येत्याशङ्क्याह -

तदिति ॥ २ ॥