प्राणानां मुख्यं जन्मेत्यत्र हेत्वन्तरमाह -
तत्प्रागिति ।
तस्य जायत इति जन्मवाचिपदस्याकाशादिषु मुख्यस्य पाठापेक्षया प्राचीनेषु प्राणेषु श्रुतत्वाच्च प्राणानां मुख्यं जन्मेति योजना ।