ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
तत्प्राक्श्रुतेश्च ॥ ३ ॥
इतश्च आकाशादीनामिव प्राणानामपि मुख्यैव जन्मश्रुतिःयत्जायतेइत्येकं जन्मवाचिपदं प्राणेषु प्राक्श्रुतं सत् उत्तरेष्वप्याकाशादिष्वनुवर्तते एतस्माज्जायते प्राणः’ (मु. उ. २ । १ । ३) इत्यत्र आकाशादिषु मुख्यं जन्मेति प्रतिष्ठापितम्तत्सामान्यात्प्राणेष्वपि मुख्यमेव जन्म भवितुमर्हति हि एकस्मिन्प्रकरणे एकस्मिंश्च वाक्ये एकः शब्दः सकृदुच्चरितो बहुभिः सम्बध्यमानः क्वचिन्मुख्यः क्वचिद्गौण इत्यध्यवसातुं शक्यम् , वैरूप्यप्रसङ्गात्तथा प्राणमसृजत प्राणाच्छ्रद्धाम्’ (प्र. उ. ६ । ४) इत्यत्रापि प्राणेषु श्रुतः सृजतिः परेष्वप्युत्पत्तिमत्सु श्रद्धादिष्वनुषज्यतेयत्रापि पश्चाच्छ्रुत उत्पत्तिवचनः शब्दः पूर्वैः सम्बध्यते, तत्राप्येष एव न्यायःयथासर्वाणि भूतानि व्युच्चरन्तिइत्ययमन्ते पठितो व्युच्चरन्तिशब्दः पूर्वैरपि प्राणादिभिः सम्बध्यते ॥ ३ ॥

चकारार्थमाह -

इतश्चेति ।

तदेव स्पष्टयन्नवशिष्टं व्याचष्टे -

यदिति ।

तथापि कथं प्राणेषु मुख्या जन्मश्रुतिः, तत्राह -

आकाशादिष्विति ।

तत्सामान्यात् ।

तैराकाशादिभिः सह जायमानत्वेन तुल्यत्वादित्यर्थः ।

एकस्यापि शब्दस्य विषयभेदादग्न्यादिशब्दवद्गौणत्वमुख्यत्वे स्यातामित्याशङ्क्याह -

नहीति ।

एकस्मिन्नपि प्रकरणे ‘अन्नं ब्रह्म', ‘आनन्दो ब्रह्म’ इत्यादौ ब्रह्मशब्दस्यानेकार्थत्ववदिहापि स्यादित्याशङ्क्याह -

एकस्मिन्निति ।

तथापि तपसा ब्रह्मेत्यादिवदनेकार्थत्वमाशङ्क्योक्तम् -

एकइति ।

ब्रह्मशब्दस्यापि तुल्यमेकत्वमित्याशङ्क्याह -

सकृदिति ।

एतस्मादित्यादावुक्तन्यायं वाक्यान्तरेऽप्यतिदिशति -

तथेति ।

तस्य जन्मवाचिनः शब्दस्य पूर्वश्रवणात्तस्य चोत्तरेषु मुख्यत्वात्तत्सामान्यात्प्राणेष्वपि मुख्यतेत्युक्तम् । इदानीं मुख्यजन्मवाचिनः शब्दात्प्राक्प्राणादीनां श्रुतेस्तद्योगिनामितरेषामिव तेषामपि तत्साहचर्यान्मुख्यं जन्मेति व्याख्यान्तरमाह -

यत्रेति ।

न्यायः सह पठितेषु जन्मनो मुख्यत्वाविशेषस्तत्रोदाहरणम् - यथेति ॥ ३ ॥