चकारार्थमाह -
इतश्चेति ।
तदेव स्पष्टयन्नवशिष्टं व्याचष्टे -
यदिति ।
तथापि कथं प्राणेषु मुख्या जन्मश्रुतिः, तत्राह -
आकाशादिष्विति ।
तत्सामान्यात् ।
तैराकाशादिभिः सह जायमानत्वेन तुल्यत्वादित्यर्थः ।
एकस्यापि शब्दस्य विषयभेदादग्न्यादिशब्दवद्गौणत्वमुख्यत्वे स्यातामित्याशङ्क्याह -
नहीति ।
एकस्मिन्नपि प्रकरणे ‘अन्नं ब्रह्म', ‘आनन्दो ब्रह्म’ इत्यादौ ब्रह्मशब्दस्यानेकार्थत्ववदिहापि स्यादित्याशङ्क्याह -
एकस्मिन्निति ।
तथापि तपसा ब्रह्मेत्यादिवदनेकार्थत्वमाशङ्क्योक्तम् -
एकइति ।
ब्रह्मशब्दस्यापि तुल्यमेकत्वमित्याशङ्क्याह -
सकृदिति ।
एतस्मादित्यादावुक्तन्यायं वाक्यान्तरेऽप्यतिदिशति -
तथेति ।
तस्य जन्मवाचिनः शब्दस्य पूर्वश्रवणात्तस्य चोत्तरेषु मुख्यत्वात्तत्सामान्यात्प्राणेष्वपि मुख्यतेत्युक्तम् । इदानीं मुख्यजन्मवाचिनः शब्दात्प्राक्प्राणादीनां श्रुतेस्तद्योगिनामितरेषामिव तेषामपि तत्साहचर्यान्मुख्यं जन्मेति व्याख्यान्तरमाह -
यत्रेति ।
न्यायः सह पठितेषु जन्मनो मुख्यत्वाविशेषस्तत्रोदाहरणम् - यथेति ॥ ३ ॥