तेजःप्रभृतीनां सृष्टिप्रकरणे प्राणानामुत्पत्तिर्न श्रुता तेषामेव सृष्टेः शिष्टत्वादित्याशङ्कामनुवदति -
यद्यपीति ।
सूत्रव्याख्यानेनोत्तरमाह -
तथापीति ।
वागादीनां त्रयाणां प्रणाड्या ब्रह्मजन्मत्वेऽपि कुतो हस्तादीनां तथेत्याशङ्क्याह -
तदिति ।
तैर्वागादिभिः सामान्यंं हस्तादीनां प्राणत्वम् । उक्तमेव प्रपञ्चयति -
तथाहीति ।
तथापि कथमेषां ब्रह्मजत्वं किमेषामन्नादिमयत्वं मुख्यं गौणं वा । प्रथमं प्रत्याह -
तत्रेति ।
तेजआदीनां तज्जत्वादिति शेषः ।
द्वितीयमनूद्य तत्रापि ब्रह्मजत्वमत्याज्यमित्याह -
अथेत्यादिना ।
‘स प्राणमसृजत’ इत्यादि श्रुत्यन्तरम् । प्राणोत्पत्तिश्रुतेर्मुख्यार्थत्वेऽपि विरोधाभावादश्रुतेश्चासिद्धत्वान्मूलकारणे ब्रह्मणि समन्वयसिद्धिरित्युपसंहरति -
तस्मादिति ॥ ४ ॥