ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
तत्पूर्वकत्वाद्वाचः ॥ ४ ॥
यद्यपि तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इत्येतस्मिन्प्रकरणे प्राणानामुत्पत्तिर्न पठ्यते, तेजोबन्नानामेव त्रयाणां भूतानामुत्पत्तिश्रवणात्तथापि ब्रह्मप्रकृतिकतेजोबन्नपूर्वकत्वाभिधानाद्वाक्प्राणमनसाम् , तत्सामान्याच्च सर्वेषामेव प्राणानां ब्रह्मप्रभवत्वं सिद्धं भवतितथा हिअस्मिन्नेव प्रकरणे तेजोबन्नपूर्वकत्वं वाक्प्राणमनसामाम्नायतेअन्नमयꣳ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्’ (छा. उ. ६ । ५ । ४) इतितत्र यदि तावन्मुख्यमेवैषामन्नादिमयत्वम् , ततो वर्तत एव ब्रह्मप्रभवत्वम्अथ भाक्तम् , तथापि ब्रह्मकर्तृकायां नामरूपव्याक्रियायां श्रवणात् , येनाश्रुतꣳ श्रुतं भवति’ (छा. उ. ६ । १ । ३) इति चोपक्रमात् ऐतदात्म्यमिदꣳ सर्वम्’ (छा. उ. ६ । ८ । ७) इति चोपसंहारात् , श्रुत्यन्तरप्रसिद्धेश्च ब्रह्मकार्यत्वप्रपञ्चनार्थमेव मनआदीनामन्नादिमयत्ववचनमिति गम्यतेतस्मादपि प्राणानां ब्रह्मविकारत्वसिद्धिः ॥ ४ ॥

तेजःप्रभृतीनां सृष्टिप्रकरणे प्राणानामुत्पत्तिर्न श्रुता तेषामेव सृष्टेः शिष्टत्वादित्याशङ्कामनुवदति -

यद्यपीति ।

सूत्रव्याख्यानेनोत्तरमाह -

तथापीति ।

वागादीनां त्रयाणां प्रणाड्या ब्रह्मजन्मत्वेऽपि कुतो हस्तादीनां तथेत्याशङ्क्याह -

तदिति ।

तैर्वागादिभिः सामान्यंं हस्तादीनां प्राणत्वम् । उक्तमेव प्रपञ्चयति -

तथाहीति ।

तथापि कथमेषां ब्रह्मजत्वं किमेषामन्नादिमयत्वं मुख्यं गौणं वा । प्रथमं प्रत्याह -

तत्रेति ।

तेजआदीनां तज्जत्वादिति शेषः ।

द्वितीयमनूद्य तत्रापि ब्रह्मजत्वमत्याज्यमित्याह -

अथेत्यादिना ।

‘स प्राणमसृजत’ इत्यादि श्रुत्यन्तरम् । प्राणोत्पत्तिश्रुतेर्मुख्यार्थत्वेऽपि विरोधाभावादश्रुतेश्चासिद्धत्वान्मूलकारणे ब्रह्मणि समन्वयसिद्धिरित्युपसंहरति -

तस्मादिति ॥ ४ ॥