ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
सप्त गतेर्विशेषितत्वाच्च ॥ ५ ॥
उत्पत्तिविषयः श्रुतिविप्रतिषेधः प्राणानां परिहृतःसंख्याविषय इदानीं परिह्रियतेतत्र मुख्यं प्राणमुपरिष्टाद्वक्ष्यतिसम्प्रति तु कति इतरे प्राणा इति सम्प्रधारयतिश्रुतिविप्रतिपत्तेश्चात्र विशयःक्वचित्सप्त प्राणाः सङ्कीर्त्यन्तेसप्त प्राणाः प्रभवन्ति तस्मात्’ (मु. उ. २ । १ । ८) इति; क्वचिदष्टौ प्राणा ग्रहत्वेन गुणेन सङ्कीर्त्यन्तेअष्टो ग्रहा अष्टावतिग्रहाः’ (बृ. उ. ३ । २ । १) इति; क्वचिन्नवसप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौ’ (तै. सं. ५ । १ । ७ । १) इति; क्वचिद्दश — ‘नव वै पुरुषे प्राणा नाभिर्दशमीइति; क्वचिदेकादशदशेमे पुरुषे प्राणा आत्मैकादशः’ (बृ. उ. ३ । ९ । ४) इति; क्वचिद्द्वादशसर्वेषाꣳ स्पर्शानां त्वगेकायनम्’ (बृ. उ. २ । ४ । ११) इत्यत्र; क्वचित्त्रयोदशचक्षुश्च द्रष्टव्यं ’ (प्र. उ. ४ । ८) इत्यत्रएवं हि विप्रतिपन्नाः प्राणेयत्तां प्रति श्रुतयःकिं तावत्प्राप्तम् ? सप्तैव प्राणा इतिकुतः ? गतेः; यतस्तावन्तोऽवगम्यन्ते सप्त प्राणाः प्रभवन्ति तस्मात्’ (मु. उ. २ । १ । ८) इत्येवंविधासु श्रुतिषु, विशेषिताश्चैतेसप्त वै शीर्षण्याः प्राणाःइत्यत्रननुप्राणा गुहाशया निहिताः सप्त सप्तइति वीप्सा श्रूयते; सा सप्तभ्योऽतिरिक्तान्प्राणान्गमयतीतिनैष दोषःपुरुषभेदाभिप्रायेयं वीप्साप्रतिपुरुषं सप्त सप्त प्राणा इति; तत्त्वभेदाभिप्रायासप्त सप्त अन्येऽन्ये प्राणा इतिनन्वष्टत्वादिकापि संख्या प्राणेषु उदाहृता; कथं सप्तैव स्युः ? सत्यमुदाहृता; विरोधात्त्वन्यतमा संख्या अध्यवसातव्यातत्र स्तोककल्पनानुरोधात्सप्तसंख्याध्यवसानम्वृत्तिभेदापेक्षं संख्यान्तरश्रवणमिति मन्यते ॥ ५ ॥

पूर्वोत्तरसङ्गतिमाह -

उत्पत्तीति ।

सर्वप्राणसङ्ख्याविषयत्वं व्यावर्त्य वागादिसङ्ख्याविषयत्वमस्याधिकरणस्य दर्शयति -

तत्रेति ।

मुख्यादितरान् प्राणान्विषयत्वेनोक्त्वा सहेतुं संशयमाह -

श्रुतीति ।

श्रुतिविप्रतिपत्तिमेवोपन्यस्यति -

क्वचिदित्यादिना ।

चक्षुर्घ्राणं रसनं श्रोत्रं वाङ्मनस्त्वगिति सप्त प्राणाः ।

ग्रहत्वेन

बन्धत्वेनेति यावत् । त एव सहस्ताधिकाः सन्तोऽष्टौ । तेषां च ग्रहत्वं बन्धनहेतुत्वात् । एतेषां विषया रूपादयोऽतिग्रहाः । ते हि रागमुत्पाद्येन्द्रियाकर्षकत्वाद्ग्रहानतिशेरते । द्वे श्रोत्रे द्वे चक्षुषी द्वे घ्राणे वागिति सप्त शीर्ष्णि भवाः शीर्षण्या प्राणाः । द्वाववाञ्चौ पायूपस्थौ बुद्धिमनसी चेति नव । पुरुषे तदाकारे देहे शिरःपाण्यादिमत्युक्ता नव प्राणा नाभिश्च दशमी दशानां पूरणीति श्रुत्यर्थः । पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनश्चाप्नोतीत्यात्मेत्येकादश प्राणाः । त एव सहृदया द्वादश । त एव साहङ्कारास्त्रयोदश ।

श्रुतिविप्रतिपत्तिमुपसंहरति -

एवमिति ।

प्रश्नपूर्वकं पूर्वपक्षसूत्रं योजयति -

किमिति ।

अत्र च प्राणसङ्ख्याश्रुतिविवादव्युदासेन तत्कारणे ब्रह्मणि समन्वयव्यवस्थापनात्पादादिसङ्गतयः । पूर्वपक्षे सप्तप्राणकारणे ब्रह्मणि समन्वयेऽप्येकादशप्राणकारणे तत्र तदसिद्धिः । सिद्धान्ते तदनुसारित्वादितरश्रुतीनामेकादशप्राणकारणे ब्रह्मणि तत्सिद्धिः ।

गतेरिति हेतुं प्रश्नद्वारा व्याचष्टे -

कुत इति ।

न केवलं श्रुतितोऽधिगतेः सप्तैव प्राणाः किन्तु विशेषणादपीत्यवशिष्टं व्याचष्टे -

विशेषिताश्चेति ।

दक्षिणेनाक्ष्णा पश्यतीत्युक्ते वामेन न पश्यतीतिवत्प्राणाः शीर्षण्याः सप्तेत्युक्ते हस्तादीनामशीर्षण्यानामप्राणत्वं भातीत्यर्थः ।

प्राणानां सप्तत्वं वीप्साविरुद्धमिति शङ्कते -

नन्विति ।

गुहायां हृदये शेरत इति गुहाशयाः स्वस्थानेषु निहिताः निक्षिप्ता इति यावत् ।

वीप्सा पुनर्वचनमन्यथापि स्यादिति पूर्ववाद्याह -

नेति ।

पुरुषभेदकृतवीप्साप्रवृत्तिं प्रकटयति -

प्रतीति ।

व्यावर्त्यमंशमाह -

नेत्यादिना ।

सङ्ख्यान्तरश्रुतिविरोधं शङ्कते -

नन्विति ।

सङ्ख्यान्तरश्रुतिमङ्गीकरोति -

सत्यमिति ।

तर्हि सङ्ख्यान्तरमपि ग्राह्यं, नेत्याह -

विरोधात्त्विति ।

सप्तत्वावच्छिन्नानामेवाष्टत्वाद्यवच्छेदायोगादन्यतमत्यागावश्यम्भावे कतमा सङ्ख्याऽदेयेति विवक्षायां लाघवान्निश्चितं सप्तत्वमित्यर्थः ।

न्यूनाधिकसङ्ख्ययोरधिका ग्राह्या तस्यां न्यूनान्तर्भावादित्याशङ्क्यैकादशसङ्ख्यां गृहीत्वा वृत्तिभेदेन नवद्वादशत्रयोदशसङ्ख्यावदिहापि प्राथम्याल्लाघधवाच्च सप्तत्वस्यैव युक्तत्वाद्वृत्त्यपेक्षया सङ्ख्यान्तरमित्याह -

वृत्तीति ।

वक्ष्यमाणयुक्त्या मन्यतेरुक्तिः ॥ ५ ॥