ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
हस्तादयस्तु स्थितेऽतो नैवम् ॥ ६ ॥
इयमपरा सूत्रद्वययोजनाप्तैव प्राणाः स्युः, यतः सप्तानामेव गतिः श्रूयतेतमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति’ (बृ. उ. ४ । ४ । २) इत्यत्रननु सर्वशब्दोऽत्र पठ्यते, तत्कथं सप्तानामेव गतिः प्रतिज्ञायत इति ? विशेषितत्वादित्याहसप्तैव हि प्राणाश्चक्षुरादयस्त्वक्पर्यन्ता विशेषिता इह प्रकृताः यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावर्ततेऽथारूपज्ञो भवति’ (बृ. उ. ४ । ४ । १) एकीभवति पश्यतीत्याहुः’ (बृ. उ. ४ । ४ । २) इत्येवमादिना अनुक्रमणेनप्रकृतगामी सर्वशब्दो भवति; यथा सर्वे ब्राह्मणा भोजयितव्या इति ये निमन्त्रिताः प्रकृता ब्राह्मणास्त एव सर्वशब्देनोच्यन्ते, नान्येएवमिहापि ये प्रकृताः सप्त प्राणास्त एव सर्वशब्देनोच्यन्ते, नान्य इतिनन्वत्र विज्ञानमष्टममनुक्रान्तम्; कथं सप्तानामेवानुक्रमणम् ? नैष दोषःमनोविज्ञानयोस्तत्त्वाभेदाद्वृत्तिभेदेऽपि सप्तत्वोपपत्तेःतस्मात्सप्तैव प्राणा इतिएवं प्राप्ते, ब्रूमःहस्तादयस्त्वपरे सप्तभ्योऽतिरिक्ताः प्राणाः प्रतीयन्ते हस्तो वै ग्रहः’ (बृ. उ. ३ । २ । ८) इत्यादिश्रुतिषुग्रहत्वं बन्धनभावः, गृह्यते बध्यते क्षेत्रज्ञः अनेन ग्रहसंज्ञकेन बन्धनेनेति क्षेत्रज्ञो नैकस्मिन्नेव शरीरे बध्यते, शरीरान्तरेष्वपि तुल्यत्वाद्बन्धनस्यतस्माच्छरीरान्तरसञ्चारि इदं ग्रहसंज्ञकं बन्धनम् इत्यर्थादुक्तं भवतितथा स्मृतिः — ‘पुर्यष्टकेन लिङ्गेन प्राणाद्येन युज्यतेतेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन इति प्राङ्मोक्षात् ग्रहसंज्ञकेन बन्धनेन अवियोगं दर्शयतिआथर्वणे विषयेन्द्रियानुक्रमणे चक्षुश्च द्रष्टव्यं ’ (प्र. उ. ४ । ८) इत्यत्र तुल्यवद्धस्तादीनीन्द्रियाणि सविषयाण्यनुक्रामतिहस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं पायुश्च विसर्जयितव्यं पादौ गन्तव्यं ’ (प्र. उ. ४ । ८) इतितथा दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति’ (बृ. उ. ३ । ९ । ४) इत्येकादशानां प्राणानामुत्क्रान्तिं दर्शयतिसर्वशब्दोऽपि प्राणशब्देन सम्बध्यमानोऽशेषान्प्राणानभिदधानो प्रकरणवशेन सप्तस्वेवावस्थापयितुं शक्यते, प्रकरणाच्छब्दस्य बलीयस्त्वात्सर्वे ब्राह्मणा भोजयितव्याः इत्यत्रापि सर्वेषामेव अवनिवर्तिनां ब्राह्मणानां ग्रहणं न्याय्यम् , सर्वशब्दसामर्थ्यात्सर्वभोजनासम्भवात्तु तत्र निमन्त्रितमात्रविषया सर्वशब्दस्य वृत्तिराश्रिताइह तु किञ्चित्सर्वशब्दार्थसङ्कोचने कारणमस्तितस्मात्सर्वशब्देन अत्र अशेषाणां प्राणानां परिग्रहःप्रदर्शनार्थं सप्तानामनुक्रमणमित्यनवद्यम्तस्मादेकादशैव प्राणाःशब्दतः कार्यतश्चेति सिद्धम् ॥ ६ ॥

वर्णकान्तरमाह -

इयमिति ।

इन्द्रियाण्येव विषयस्तानि किं सप्त किं वैकादशेति श्रुतिविमत्या सन्देहे पूर्वपक्षमाह -

सप्तेति ।

येषां सह गमनं तेषामेव जन्मान्तरीयभोगोपायत्वादिन्द्रियत्वम् , इह तु सप्तानामेव गतिः श्रूयते । तस्मात्तेषामेवेन्द्रियत्वमित्यर्थः ।

सप्तगतेरिति व्याख्याय शङ्कोत्तरत्वेन पदान्तरमादत्ते -

नन्वित्यादिना ।

तद्व्याकरोति -

सप्तैवेति ।

चक्षुरादय इत्यादिशब्देन घ्राणरसनावाक्श्रोत्रत्वङ्मनांसि गृह्यन्ते । इहेत्युत्क्रान्तिप्रकरणोक्तिः । यत्र यस्यामवस्थायां चक्षुरधिष्ठातृदेवतांशः स एष पुरुषशब्दितः पराङ् पर्यावर्तते बहिर्देशात्स्वस्थानं प्रति व्यावर्तते तदानीमरूपज्ञो जीवो भवति हृदये चक्षुरेकीभवति पार्श्वस्थाश्च नायं पश्यतीत्याहुः । न जिघ्रति न रसयते न वदति न श्रृणोति न मनुते न स्पृशतीत्येवं सप्तैव विशेषिता इत्यर्थः ।

तथापि सर्वश्रुत्या सर्वप्राणगमनमाशङ्क्य प्रकरणात्तस्याः सङ्कोचमाह -

प्रकृतेति ।

प्रकरणेन श्रुतिसङ्कोचं दृष्टान्तेन स्पष्टयति -

यथेत्यादिना ।

‘एकीभवति न विजानातीत्याहुः’ इतिबुद्धेरपि पाठादसिद्धं सप्तानामेवानुक्रमणमित्याह -

नन्विति ।

बुद्धेरनुक्रमणं न सप्तत्वविघातकमित्याह -

नेति ।

पूर्वपक्षमुपसंहरति -

तस्मादिति ।

तदनुवादेन सिद्धान्तयति -

एवमिति ।

अक्षरार्थाविशेषेऽपि तात्पर्यार्थे विशेषं दर्शयितुमक्षरार्थं सङ्क्षिपति -

हस्तादयस्त्विति ।

यदुक्तमनुयायिनामेवेेन्द्रियत्वं तदङ्गीकृत्यानुयायित्वमेकादशानामस्तीत्याह -

ग्रहत्वं चेति ।

कथमेतावता सर्वदेहानुयायित्वमित्याशङ्क्य जीवस्य सर्वदेहेषु बद्धत्वसिद्धेस्तद्धीरित्याह -

स चेति ।

सर्वेषु देहेषु जीवस्य बद्धत्वेऽपि कुतो ग्रहसंज्ञकस्य हस्तादेरनुयायित्वं, तत्राह -

तस्मादिति ।

हृदयग्रहसंज्ञकहस्तादिबन्धस्याऽऽमोक्षादात्मानुयायित्वे स्मृतिमाह -

तथाचेति ।

पुर्यष्टकं विशिनष्टि -

प्राणाद्येनेति ।

प्राणादिपञ्चकं भूतसूक्ष्मपञ्चकं कर्मेन्द्रियपञ्चकं ज्ञानेन्द्रियपञ्चकं मनआद्यन्तःकरणचतुष्कमविद्या कामः कर्म चेति पुर्यष्टकम् । तच्चानेनात्मा लिङ्ग्यते ज्ञायत इति लिङ्गम् । प्रकृतोपयोगितात्पर्यं स्मृतेर्दर्शयति -

प्रागिति ।

सार्थेन्द्रियप्रस्तावे हस्तादीनां सार्थानामुक्तेरपि तेषामिन्द्रियत्वं देहान्तरसञ्चारित्वं च प्रसिद्धमित्याह -

आथर्वणे चेति ।

इतश्च हस्तादीनामस्तीन्द्रियत्वं देहान्तरसञ्चारित्वं चेत्याह -

तथेति ।

यत्तु सर्वशब्दः प्रकृतगामीति, तत्राह -

सर्वेति ।

अनुयायिनामेवेन्द्रियत्वे वाच्ये प्राणमनूत्क्रामन्तमित्यत्र सर्वशब्देन प्राकरणिकसप्तप्रणोक्तिर्वा ‘दशेमे पुरुषे प्राणा आत्मैकादश’ इति श्रुत्यन्तरसिद्धैकादशप्राणानां सर्वे प्राणा इति प्राणश्रुत्युक्तानामुक्तिर्वेति । विमर्शे प्राकरणिकसप्तग्रहाद्वरं श्रौतैकादशग्रहः संनिकर्षादिति भावः ।

परोक्तं दृष्टान्तं विघटयति -

सर्व इति ।

कथं तर्हि सङ्कोचः, तत्राह -

सर्वेति ।

उत्क्रान्तिवाक्येऽपि तथा सङ्कोचः स्यात् , नेत्याह -

इह त्विति ।

अनुपपत्तिके सङ्कोचे प्राकरणिकः सङ्ख्यानियमो युक्तः । दार्ष्टान्तिके तु नानुपपत्तिरिति कुतः सङ्कोच इत्यर्थः ।

सङ्कोचाभावे फलितमाह -

तस्मादिति ॥ ६ ॥