वर्णकान्तरमाह -
इयमिति ।
इन्द्रियाण्येव विषयस्तानि किं सप्त किं वैकादशेति श्रुतिविमत्या सन्देहे पूर्वपक्षमाह -
सप्तेति ।
येषां सह गमनं तेषामेव जन्मान्तरीयभोगोपायत्वादिन्द्रियत्वम् , इह तु सप्तानामेव गतिः श्रूयते । तस्मात्तेषामेवेन्द्रियत्वमित्यर्थः ।
सप्तगतेरिति व्याख्याय शङ्कोत्तरत्वेन पदान्तरमादत्ते -
नन्वित्यादिना ।
तद्व्याकरोति -
सप्तैवेति ।
चक्षुरादय इत्यादिशब्देन घ्राणरसनावाक्श्रोत्रत्वङ्मनांसि गृह्यन्ते । इहेत्युत्क्रान्तिप्रकरणोक्तिः । यत्र यस्यामवस्थायां चक्षुरधिष्ठातृदेवतांशः स एष पुरुषशब्दितः पराङ् पर्यावर्तते बहिर्देशात्स्वस्थानं प्रति व्यावर्तते तदानीमरूपज्ञो जीवो भवति हृदये चक्षुरेकीभवति पार्श्वस्थाश्च नायं पश्यतीत्याहुः । न जिघ्रति न रसयते न वदति न श्रृणोति न मनुते न स्पृशतीत्येवं सप्तैव विशेषिता इत्यर्थः ।
तथापि सर्वश्रुत्या सर्वप्राणगमनमाशङ्क्य प्रकरणात्तस्याः सङ्कोचमाह -
प्रकृतेति ।
प्रकरणेन श्रुतिसङ्कोचं दृष्टान्तेन स्पष्टयति -
यथेत्यादिना ।
‘एकीभवति न विजानातीत्याहुः’ इतिबुद्धेरपि पाठादसिद्धं सप्तानामेवानुक्रमणमित्याह -
नन्विति ।
बुद्धेरनुक्रमणं न सप्तत्वविघातकमित्याह -
नेति ।
पूर्वपक्षमुपसंहरति -
तस्मादिति ।
तदनुवादेन सिद्धान्तयति -
एवमिति ।
अक्षरार्थाविशेषेऽपि तात्पर्यार्थे विशेषं दर्शयितुमक्षरार्थं सङ्क्षिपति -
हस्तादयस्त्विति ।
यदुक्तमनुयायिनामेवेेन्द्रियत्वं तदङ्गीकृत्यानुयायित्वमेकादशानामस्तीत्याह -
ग्रहत्वं चेति ।
कथमेतावता सर्वदेहानुयायित्वमित्याशङ्क्य जीवस्य सर्वदेहेषु बद्धत्वसिद्धेस्तद्धीरित्याह -
स चेति ।
सर्वेषु देहेषु जीवस्य बद्धत्वेऽपि कुतो ग्रहसंज्ञकस्य हस्तादेरनुयायित्वं, तत्राह -
तस्मादिति ।
हृदयग्रहसंज्ञकहस्तादिबन्धस्याऽऽमोक्षादात्मानुयायित्वे स्मृतिमाह -
तथाचेति ।
पुर्यष्टकं विशिनष्टि -
प्राणाद्येनेति ।
प्राणादिपञ्चकं भूतसूक्ष्मपञ्चकं कर्मेन्द्रियपञ्चकं ज्ञानेन्द्रियपञ्चकं मनआद्यन्तःकरणचतुष्कमविद्या कामः कर्म चेति पुर्यष्टकम् । तच्चानेनात्मा लिङ्ग्यते ज्ञायत इति लिङ्गम् । प्रकृतोपयोगितात्पर्यं स्मृतेर्दर्शयति -
प्रागिति ।
सार्थेन्द्रियप्रस्तावे हस्तादीनां सार्थानामुक्तेरपि तेषामिन्द्रियत्वं देहान्तरसञ्चारित्वं च प्रसिद्धमित्याह -
आथर्वणे चेति ।
इतश्च हस्तादीनामस्तीन्द्रियत्वं देहान्तरसञ्चारित्वं चेत्याह -
तथेति ।
यत्तु सर्वशब्दः प्रकृतगामीति, तत्राह -
सर्वेति ।
अनुयायिनामेवेन्द्रियत्वे वाच्ये प्राणमनूत्क्रामन्तमित्यत्र सर्वशब्देन प्राकरणिकसप्तप्रणोक्तिर्वा ‘दशेमे पुरुषे प्राणा आत्मैकादश’ इति श्रुत्यन्तरसिद्धैकादशप्राणानां सर्वे प्राणा इति प्राणश्रुत्युक्तानामुक्तिर्वेति । विमर्शे प्राकरणिकसप्तग्रहाद्वरं श्रौतैकादशग्रहः संनिकर्षादिति भावः ।
परोक्तं दृष्टान्तं विघटयति -
सर्व इति ।
कथं तर्हि सङ्कोचः, तत्राह -
सर्वेति ।
उत्क्रान्तिवाक्येऽपि तथा सङ्कोचः स्यात् , नेत्याह -
इह त्विति ।
अनुपपत्तिके सङ्कोचे प्राकरणिकः सङ्ख्यानियमो युक्तः । दार्ष्टान्तिके तु नानुपपत्तिरिति कुतः सङ्कोच इत्यर्थः ।
सङ्कोचाभावे फलितमाह -
तस्मादिति ॥ ६ ॥