ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
श्रेष्ठश्च ॥ ८ ॥
मुख्यश्च प्राण इतरप्राणवद्ब्रह्मविकारःइत्यतिदिशतितच्च अविशेषेणैव सर्वप्राणानां ब्रह्मविकारत्वमाख्यातम्एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि ’ (मु. उ. २ । १ । ३) इति सेन्द्रियमनोव्यतिरेकेण प्राणस्योत्पत्तिश्रवणात् , प्राणमसृजत’ (प्र. उ. ६ । ४) इत्यादिश्रवणेभ्यश्चकिमर्थः पुनरतिदेशः ? अधिकाशङ्कापाकरणार्थःनासदासीये हि ब्रह्मप्रधाने सूक्ते मन्त्रवर्णो भवति मृत्युरासीदमृतं तर्हि रात्र्या अह्न आसीत्प्रकेतःआनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनास’ (ऋ. सं. ८ । ७ । १७) इति । ‘आनीत्इति प्राणकर्मोपादानात् प्रागुत्पत्तेः सन्तमिव प्राणं सूचयतितस्मादजः प्राण इति जायते कस्यचिन्मतिः; तामतिदेशेनापनुदतिआनीच्छब्दोऽपि प्रागुत्पत्तेः प्राणसद्भावं सूचयति, ‘अवातम्इति विशेषणात् , ‘अप्राणो ह्यमनाः शुभ्रःइति मूलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वस्य दर्शितत्वात्तस्मात्कारणसद्भावप्रदर्शनार्थ एवायम् आनीच्छब्द इति । ‘श्रेष्ठःइति मुख्यं प्राणमभिदधाति, प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च’ (छा. उ. ५ । १ । १) इति श्रुतिनिर्देशात्ज्येष्ठश्च प्राणः, शुक्रनिषेककालादारभ्य तस्य वृत्तिलाभात् चेत्तस्य तदानीं वृत्तिलाभः स्यात् , योनौ निषिक्तं शुक्रं पूयेत, सम्भवेद्वाश्रोत्रादीनां तु कर्णशष्कुल्यादिस्थानविभागनिष्पत्तौ वृत्तिलाभान्न ज्येष्ठत्वम्श्रेष्ठश्च प्राणः, गुणाधिक्यात् वै शक्ष्यामस्त्वदृते जीवितुम्’ (बृ. उ. ६ । १ । १३) इति श्रुतेः ॥ ८ ॥

ज्ञाते चक्षुरादौ तद्व्यापारात् प्राणस्य भेदचिन्ता सुकरेति चक्षुरादिनिरूपणानन्तरमतिदेशो न विरुध्यते । मुख्यप्राणो विषयः, तस्य किं जन्म नास्ति किं वास्तीति श्रुतिविप्रतिपत्त्या संशयेऽतिदेशं विशदयति -

मुख्यश्चेति ।

अत्र चाद्याधिकरणवत्पादादिसङ्गतिफलभेदौ ।

कुतस्तर्हि ब्रह्मविकारत्वं, तत्राह -

तच्चेति ।

पूर्वोक्तन्यायेनैव ब्रह्मविकारत्वसिद्धौ किमतिदेशेनेत्याह -

किमर्थ इति ।

अतिदेशफलमाह -

अधिकाशङ्केति ।

तामेवाधिकां शङ्कां दर्शयति -

नासदासीये हीति ।

नासदासीदित्यारभ्य प्रवृत्ते सूक्ते ब्रह्मपरे मन्त्र एव वर्णयतीति वर्णो दृष्टोऽस्तीति यावत् । तर्हि तस्मिन्महाप्रलये मृत्युर्मारको मृत्युमद्वा कार्यं नासीत् , अमृतमपि देवोपभोगयोग्यममृतत्वाधिकरणं वा नासीत् , तथा रात्र्या रात्रेरह्नो दिवसस्य च प्रकेतश्चिह्नभूतश्चन्द्रः सविता च नास्तां, स्वधया सहेति सम्बन्धः । स्वधेति पितृभ्यो दीयमानमन्नम् । पित्राद्यर्चनमपि नासीदित्यर्थः । यद्वा स्वधया स्वया धारणया स्वकीयस्थित्या तदेकमवातं वातवर्जितमानीच्चेष्टां कृतवदिति यावत् । तस्माच्चेष्टावतः सकाशाद्ध किलान्यत्किञ्चन किञ्चिदपि परः परं प्रकृष्टं नाऽऽस न बभूवेत्यर्थः ।

अस्मिन्मन्त्रे विवक्षितमंशमाह -

प्रागिति ।

अत्र प्राणवाचकाभावात्कथं तदस्तित्वधीरित्याशङ्क्याह -

आनीदिति ।

प्राणोत्पत्तिन्यायेनैव मुख्यस्यापि जन्मसिद्धौ किं पुनरुक्त्येत्याशङ्क्यावान्तरप्रकृतिविषयत्वेन व्यवस्था तत्रोक्ता । प्रकृते महाप्रलयविषयत्वान्न पूर्वन्यायसिद्धिरिति मत्वाह -

तस्मादिति ।

अधिकां शङ्कामुक्त्वा सिद्धान्तयति -

तामिति ।

‘एतस्माज्जायते प्राणः’ इति प्राणजन्म श्रुतम् । ‘आनीत्’ इत्यननं प्राणव्यापारः प्रागवस्थायां प्राणसत्त्वे लिङ्गम् । तत्र द्वयोर्महाप्रलयावान्तरप्रलयभेदेन व्यवस्थानुपपत्तावन्यतरस्य गौणत्वे श्रुतिविरोधे लिङ्गस्यैव गौणत्वादानीच्छब्दस्य मूलकारणसत्तावाचित्वकल्पनया प्राणस्य जन्मोपेयमिति । शङ्कानिरासमेव सूचयति -

आनीदिति ।

प्रमाणान्तरवदित्यपेरर्थः ।

इतश्च प्रागवस्थायां न प्राणस्य सत्त्वमित्याह -

अवातमिति ।

इतोऽपि महाप्रलये प्राणसत्ता नास्तीत्याह -

अप्राणो हीति ।

आनीच्छब्दस्तर्हि कथमित्याशङ्क्य धातूनामनेकार्थत्वमाश्रित्याह -

तस्मादिति ।

एवं शङ्कानिरासेऽपि प्राणे श्रेष्ठशब्दाप्रसिद्धौ कथं सूत्रमित्याशङ्क्याह -

श्रेष्ठ इति ।

श्रौतं ज्येष्ठत्वं साधयति -

ज्येष्ठश्चेति ।

तदेव व्यतिरेकद्वारा स्फोरयति -

न चेदिति ।

न सम्भवेदिति श्रुतेरेवानुकरणमिन्द्रियाणामपि तुल्यं ज्यैष्ठ्यं, तत्राह -

श्रोत्रादीनां त्विति ।

श्रेष्ठत्वं साधसति -

श्रेष्ठश्चेति ।

कथं गुणाधिक्यं, तत्रोक्तम् -

न वा इति ।

तदेवं मुख्यप्राणोत्पत्तिश्रुतीनामन्योन्यमविरोधान्मुख्यप्राणकारणे ब्रह्मणि समन्वय इति ॥ ८ ॥