ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥
पुनर्मुख्यः प्राणः किंस्वरूप इति इदानीं जिज्ञास्यतेतत्र प्राप्तं तावत्श्रुतेः वायुः प्राण इतिएवं हि श्रूयते — ‘यः प्राणः वायुः एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समानःइतिअथवा तन्त्रान्तरीयाभिप्रायात् समस्तकरणवृत्तिः प्राण इति प्राप्तम्; एवं हि तन्त्रान्तरीया आचक्षते — ‘सामान्या करणवृत्तिः प्राणाद्या वायवः पञ्चइति
अत्रोच्यते वायुः प्राणः, नापि करणव्यापारःकुतः ? पृथगुपदेशात्वायोस्तावत् प्राणस्य पृथगुपदेशो भवतिप्राण एव ब्रह्मणश्चतुर्थः पादः वायुना ज्योतिषा भाति तपति ’ (छा. उ. ३ । १८ । ४) इति हि वायुरेव सन् वायोः पृथगुपदिश्येततथा करणवृत्तेरपि पृथगुपदेशो भवति, वागादीनि करणान्यनुक्रम्य तत्र तत्र पृथक्प्राणस्यानुक्रमणात् , वृत्तिवृत्तिमतोश्चाभेदात् हि करणव्यापार एव सन् करणेभ्यः पृथगुपदिश्येततथा एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि खं वायुः’ (मु. उ. २ । १ । ३) इत्येवमादयोऽपि वायोः करणेभ्यश्च प्राणस्य पृथगुपदेशा अनुसर्तव्याः समस्तानां करणानामेका वृत्तिः सम्भवति, प्रत्येकमेकैकवृत्तित्वात् , समुदायस्य अकारकत्वात्ननु पञ्जरचालनन्यायेन एतद्भविष्यतियथा एकपञ्जरवर्तिन एकादशपक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः सम्भूय एकं पञ्जरं चालयन्ति, एवमेकशरीरवर्तिन एकादशप्राणाः प्रत्येकं प्रतिनियतवृत्तयः सन्तः सम्भूय एकां प्राणाख्यां वृत्तिं प्रतिलप्स्यन्त इतिनेत्युच्यतेयुक्तं तत्र प्रत्येकवृत्तिभिरवान्तरव्यापारैः पञ्जरचालनानुरूपैरेवोपेताः पक्षिणः सम्भूय एकं पञ्जरं चालयेयुरिति, तथा दृष्टत्वात्इह तु श्रवणाद्यवान्तरव्यापारोपेताः प्राणा सम्भूय प्राण्युरिति युक्तम् , प्रमाणाभावात् , अत्यन्तविजातीयत्वाच्च श्रवणादिभ्यः प्राणनस्यतथा प्राणस्य श्रेष्ठत्वाद्युद्घोषणम् , गुणभावोपगमश्च तं प्रति वागादीनाम् , करणवृत्तिमात्रे प्राणेऽवकल्पतेतस्मादन्यो वायुक्रियाभ्यां प्राणःकथं तर्हीयं श्रुतिः — ‘यः प्राणः वायुःइति ? उच्यतेवायुरेवायम् अध्यात्ममापन्नः पञ्चव्यूहो विशेषात्मनावतिष्ठमानः प्राणो नाम भण्यते, तत्त्वान्तरम् , नापि वायुमात्रम्अतश्चोभे अपि भेदाभेदश्रुती विरुध्येते ॥ ९ ॥

मुख्यप्राणोत्पत्तिचिन्तानन्तरं तत्स्वरूपं चिन्तयति -

नेत्यादिना ।