न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥
स पुनर्मुख्यः प्राणः किंस्वरूप इति इदानीं जिज्ञास्यते । तत्र प्राप्तं तावत् — श्रुतेः वायुः प्राण इति । एवं हि श्रूयते — ‘यः प्राणः स वायुः स एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समानः’ इति । अथवा तन्त्रान्तरीयाभिप्रायात् समस्तकरणवृत्तिः प्राण इति प्राप्तम्; एवं हि तन्त्रान्तरीया आचक्षते — ‘सामान्या करणवृत्तिः प्राणाद्या वायवः पञ्च’ इति ॥
अत्रोच्यते —
न वायुः प्राणः,
नापि करणव्यापारः ।
कुतः ?
पृथगुपदेशात् ।
वायोस्तावत् प्राणस्य पृथगुपदेशो भवति —
‘प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च’ (छा. उ. ३ । १८ । ४) इति ।
न हि वायुरेव सन् वायोः पृथगुपदिश्येत ।
तथा करणवृत्तेरपि पृथगुपदेशो भवति,
वागादीनि करणान्यनुक्रम्य तत्र तत्र पृथक्प्राणस्यानुक्रमणात् ,
वृत्तिवृत्तिमतोश्चाभेदात् ।
न हि करणव्यापार एव सन् करणेभ्यः पृथगुपदिश्येत ।
तथा ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुः’ (मु. उ. २ । १ । ३) इत्येवमादयोऽपि वायोः करणेभ्यश्च प्राणस्य पृथगुपदेशा अनुसर्तव्याः ।
न च समस्तानां करणानामेका वृत्तिः सम्भवति,
प्रत्येकमेकैकवृत्तित्वात् ,
समुदायस्य च अकारकत्वात् ।
ननु पञ्जरचालनन्यायेन एतद्भविष्यति —
यथा एकपञ्जरवर्तिन एकादशपक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः सम्भूय एकं पञ्जरं चालयन्ति,
एवमेकशरीरवर्तिन एकादशप्राणाः प्रत्येकं प्रतिनियतवृत्तयः सन्तः सम्भूय एकां प्राणाख्यां वृत्तिं प्रतिलप्स्यन्त इति ।
नेत्युच्यते —
युक्तं तत्र प्रत्येकवृत्तिभिरवान्तरव्यापारैः पञ्जरचालनानुरूपैरेवोपेताः पक्षिणः सम्भूय एकं पञ्जरं चालयेयुरिति,
तथा दृष्टत्वात् ।
इह तु श्रवणाद्यवान्तरव्यापारोपेताः प्राणा न सम्भूय प्राण्युरिति युक्तम् ,
प्रमाणाभावात् ,
अत्यन्तविजातीयत्वाच्च श्रवणादिभ्यः प्राणनस्य ।
तथा प्राणस्य श्रेष्ठत्वाद्युद्घोषणम् ,
गुणभावोपगमश्च तं प्रति वागादीनाम् ,
न करणवृत्तिमात्रे प्राणेऽवकल्पते ।
तस्मादन्यो वायुक्रियाभ्यां प्राणः ।
कथं तर्हीयं श्रुतिः — ‘
यः प्राणः स वायुः’
इति ?
उच्यते —
वायुरेवायम् अध्यात्ममापन्नः पञ्चव्यूहो विशेषात्मनावतिष्ठमानः प्राणो नाम भण्यते,
न तत्त्वान्तरम् ,
नापि वायुमात्रम् ।
अतश्चोभे अपि भेदाभेदश्रुती न विरुध्येते ॥ ९ ॥