वायुमात्रादिन्द्रियमात्राद्वा त्वमर्थस्य विवेक इति प्राप्तमनूद्य सिद्धान्तयति -
अत्रेति ।
न वायुः प्राण इत्यत्र पृथगुपदेशहेतुं विशदयति -
वायोरिति ।
‘मनो ब्रह्मेत्युपासीत ‘ इत्युपक्रम्य मनोब्रह्मणो वाक्प्राणचक्षुःश्रोत्रैः पादैश्चतुष्पात्त्वमुक्तम् । मनो हि वागादिभिः स्वविषयेषु गौरिव पादैः प्रवर्तते । तत्र प्राण एव मनोब्रह्मणो वागाद्यपेक्षया चतुर्थपादः । स च वायुनाधिदैविकेन भात्यभिव्यज्यते स्वव्यापारे च तपत्युद्गच्छतीत्यर्थः ।
यद्यपि छान्दोग्यभाष्ये घ्राणेन्द्रियमिन्द्रियप्रकरणात्प्राण इत्युक्तं तथापि प्राणश्रुतिवशादत्र मुख्यप्राणो गृह्यते । अंशांशित्वेन भेदश्रुतिरित्याशङ्क्योपचारप्रसङ्गान्मैवमित्याह -
न हीति ।
नापि करणव्यापार इत्यत्र पृथगुपदेशं हेतुं विभज्य व्याचष्टे -
तथेति ।
प्राणस्य वागादीनां च मिथः संवादलिङ्गेनोत्पत्तिभेदलिङ्गेन चेन्द्रियतद्व्यापारेभ्यो भिन्नत्वसिद्धेर्न लाघवात्तद्वृत्तित्वमित्यर्थः ।
पृथगनुक्रमणं वृत्तिवृत्तिमतोर्भेदादित्याशङ्क्याह -
वृत्तीति ।
तादात्म्याद्भेदोऽप्यस्तीत्याशङ्क्य भेदवादस्याफलत्वान्मैवमित्याह -
न हीति ।
प्रतिज्ञाद्वयेऽपि हेतुं विभज्य व्याख्यायाविभागेनापि व्याख्याति -
तथेति ।
श्रुत्यवष्टम्भेन पक्षद्वयं निराकृत्य कारणवृत्तित्वे दोषान्तरमाह -
न चेति ।
या चक्षुःसाध्या वृत्तिः सैव न श्रोत्रसाध्या, चक्षुरादीनां प्रत्येकमेवैकरूपग्रहणादिवृत्तौ स्वातन्त्र्यात् । अतो न प्राणः सामान्यकरणवृत्तिरित्यर्थः ।
समुदायस्य करणत्वमुपेत्योक्तं तदेव नास्त्यवस्तुत्वात् । द्वित्रिकरणविकलानां च प्राणनाभावप्रसङ्गात् । अतोऽपि न करणवृत्तिः प्राण इत्याह -
समुदायस्येति ।
दृष्टान्तेन समुदितानां करणानां करणत्वं शङ्कते -
नन्विति ।
एकादशत्वं पक्षिषु दार्ष्टान्तिकानुरोधादुक्तम् ।
वैषम्यं दर्शयन्परिहरति -
इति नेति ।
तत्रेति दृष्टान्तोक्तिः ।
दार्ष्टान्तिकेऽपि किमित्यवान्तरव्यापारवतां प्राणानां प्राणाख्यसामान्यवृत्तिर्न स्यादित्याशङ्क्यावान्तरव्यापारस्तेषां श्रवणादिर्वा वृत्त्यन्तरं वेति विक्ल्प्याद्ये श्रोत्रादीनां श्रवणादिव्यापारयौगपद्ये मानायोगान्मैवमित्याह -
इह त्विति ।
कल्पान्तरं प्रत्याह -
प्रमाणेति ।
किञ्च श्रवणादीनामपरिस्पन्दत्वात्तत्प्रधानव्यापाराननुरूपत्वान्न तदवान्तरव्यापारतेत्याह -
अत्यन्तेति ।
किञ्च वागादिवृत्तित्वे प्राणस्य वागादिपारतन्त्र्यं वाच्यं, तद्वैपरीत्यं चात्र दृष्टं, तन्न प्राणस्य वागादिवृत्तितेत्याह -
तथेति ।
पृथगुपगदेशयुक्तिफलमुपसंहरति -
तस्मादिति ।
अपृथगुपदेशस्य गतिं पृच्छति -
कथमिति ।
यथा मृदोऽवस्थाविशेषो घटो मृदात्मा तथा वायोरवस्थाविशेषः प्राणो वाय्वात्मेत्याह -
उच्यत इति ।
अध्यात्मापन्नः शरीरे प्रतिष्ठितः पञ्चव्यूहः प्राणापानव्यानोदानसमानाख्यावस्थाविशेषवान्विशेषात्मना व्यावृत्तरूपेणेति यावत् ।
कथं तर्हि पृथगुपदेशः, तत्राह -
नापीति ।
तत्त्वान्तरत्वस्य तन्मात्रत्वस्य चास्वीकारे फलितमाह -
अतश्चेति ।
‘यः प्राणः स वायुः’ इति सामानाधिकरण्यवाक्येन प्राणस्य वायुत्वं सिद्धम् , ‘एतस्माज्जायते प्राणः’ इत्युत्पत्तिभेदलिङ्गेन स्वरूपभेदो दृष्टः । द्वयोश्च वाक्यलिङ्गयोर्विरोधे वाक्यं समीरणस्वभावताविषयं लिङ्गं व्यक्तिभेदविषयमिति व्यवस्थाया वायोः प्राणस्य च विषयभेदो युक्तः, लिङ्गस्य च बलीयस्त्वादिति भावः ॥ ९ ॥