ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥ १० ॥
तुशब्दः प्राणस्य जीववत् स्वातन्त्र्यं व्यावर्तयतियथा चक्षुरादीनि, राजप्रकृतिवत् , जीवस्य कर्तृत्वं भोक्तृत्वं प्रति उपकरणानि, स्वतन्त्राणि; तथा मुख्योऽपि प्राणः, राजमन्त्रिवत् , जीवस्य सर्वार्थकरत्वेन उपकरणभूतः, स्वतन्त्रःकुतः ? तत्सहशिष्ट्यादिभ्यः; तैश्चक्षुरादिभिः सहैव प्राणः शिष्यते प्राणसंवादादिषु; समानधर्मणां सह शासनं युक्तं बृहद्रथंतरादिवत्आदिशब्देन संहतत्वाचेतनत्वादीन् प्राणस्य स्वातन्त्र्यनिराकरणहेतून् दर्शयति ॥ १० ॥

सूत्राक्षराणि व्याचष्टे -

तुशब्द इत्यादिना ।

प्राणो न स्वतन्त्रः, भोगसाधनत्वात् , चक्षुरादिवदित्यर्थः ।

प्राणसंवादादिष्वित्यादिशब्देनान्येऽपि ज्ञानध्यानप्रदेशा गृह्यन्ते । सहशासनेऽपि कथं प्राणस्य चक्षुरादिसाम्यं, तत्राह -

समानेति ।

तत्र दृष्टान्तमाह -

बृहदिति ।

ते हि सामनी सहैव सर्वत्र पठ्येते तयोश्च कर्मणि सहैव प्रयुज्यमानत्वं दृष्टं सामत्वं वा साम्यम् । तथा प्राणस्यापि चक्षुरादिभिः सह पठितस्य जीवोपकरणता तुल्येत्यर्थः । संहतत्वाचेतनत्वादीत्यादिशब्देन परिच्छिन्नत्वाद्यन्तवत्त्वादिग्रहणम् ॥ १० ॥