ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
स्यादेतत्प्राणोऽपि तर्हि जीववत् अस्मिन् शरीरे स्वातन्त्र्यं प्राप्नोति, श्रेष्ठत्वात् , गुणभावोपगमाच्च तं प्रति वागादीनामिन्द्रियाणाम्तथा हि अनेकविधा विभूतिः प्राणस्य श्राव्यतेसुप्तेषु वागादिषु प्राण एवैको जागर्ति, प्राण एवैको मृत्युना अनाप्तः, प्राणः संवर्गो वागादीन् संवृङ्क्ते, प्राण इतरान्प्राणारक्षति मातेव पुत्रान्इतितस्मात्प्राणस्यापि जीववत् स्वातन्त्र्यप्रसङ्गः; तं परिहरति

प्राणो वागादिवृत्तिर्न चेत्तर्हि तस्येन्द्रियवत्करणत्वानङ्गीकाराज्जीववद्भोक्तृतेति शङ्कते -

स्यादिति ।

प्राणस्य श्रेष्ठत्वमितरेषां तं प्रति गुणत्वं च साधयति -

तथाहीति ।

श्रेष्ठत्वफलमाह -

तस्मादिति ।

प्राणस्यापि जीववदत्र भोक्तृत्वे विरुद्धाभिप्रायानेकभोक्त्रधिष्ठिततया देहस्य गमनादि न भवेदिति भावः ।

प्राणस्य चक्षुरादिवदत्यन्तोपसर्जनत्वाभावेऽपि परिचारकवतः सामन्तादे राजानं प्रति गुणत्ववद्गुणत्वं जीवं प्रति स्यादित्याह -

तमिति ।