ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
न वायुक्रिये पृथगुपदेशात् ॥ ९ ॥
अत्रोच्यते वायुः प्राणः, नापि करणव्यापारःकुतः ? पृथगुपदेशात्वायोस्तावत् प्राणस्य पृथगुपदेशो भवतिप्राण एव ब्रह्मणश्चतुर्थः पादः वायुना ज्योतिषा भाति तपति ’ (छा. उ. ३ । १८ । ४) इति हि वायुरेव सन् वायोः पृथगुपदिश्येततथा करणवृत्तेरपि पृथगुपदेशो भवति, वागादीनि करणान्यनुक्रम्य तत्र तत्र पृथक्प्राणस्यानुक्रमणात् , वृत्तिवृत्तिमतोश्चाभेदात् हि करणव्यापार एव सन् करणेभ्यः पृथगुपदिश्येततथा एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि खं वायुः’ (मु. उ. २ । १ । ३) इत्येवमादयोऽपि वायोः करणेभ्यश्च प्राणस्य पृथगुपदेशा अनुसर्तव्याः समस्तानां करणानामेका वृत्तिः सम्भवति, प्रत्येकमेकैकवृत्तित्वात् , समुदायस्य अकारकत्वात्ननु पञ्जरचालनन्यायेन एतद्भविष्यतियथा एकपञ्जरवर्तिन एकादशपक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः सम्भूय एकं पञ्जरं चालयन्ति, एवमेकशरीरवर्तिन एकादशप्राणाः प्रत्येकं प्रतिनियतवृत्तयः सन्तः सम्भूय एकां प्राणाख्यां वृत्तिं प्रतिलप्स्यन्त इतिनेत्युच्यतेयुक्तं तत्र प्रत्येकवृत्तिभिरवान्तरव्यापारैः पञ्जरचालनानुरूपैरेवोपेताः पक्षिणः सम्भूय एकं पञ्जरं चालयेयुरिति, तथा दृष्टत्वात्इह तु श्रवणाद्यवान्तरव्यापारोपेताः प्राणा सम्भूय प्राण्युरिति युक्तम् , प्रमाणाभावात् , अत्यन्तविजातीयत्वाच्च श्रवणादिभ्यः प्राणनस्यतथा प्राणस्य श्रेष्ठत्वाद्युद्घोषणम् , गुणभावोपगमश्च तं प्रति वागादीनाम् , करणवृत्तिमात्रे प्राणेऽवकल्पतेतस्मादन्यो वायुक्रियाभ्यां प्राणःकथं तर्हीयं श्रुतिः — ‘यः प्राणः वायुःइति ? उच्यतेवायुरेवायम् अध्यात्ममापन्नः पञ्चव्यूहो विशेषात्मनावतिष्ठमानः प्राणो नाम भण्यते, तत्त्वान्तरम् , नापि वायुमात्रम्अतश्चोभे अपि भेदाभेदश्रुती विरुध्येते ॥ ९ ॥

वायुमात्रादिन्द्रियमात्राद्वा त्वमर्थस्य विवेक इति प्राप्तमनूद्य सिद्धान्तयति -

अत्रेति ।

न वायुः प्राण इत्यत्र पृथगुपदेशहेतुं विशदयति -

वायोरिति ।

‘मनो ब्रह्मेत्युपासीत ‘ इत्युपक्रम्य मनोब्रह्मणो वाक्प्राणचक्षुःश्रोत्रैः पादैश्चतुष्पात्त्वमुक्तम् । मनो हि वागादिभिः स्वविषयेषु गौरिव पादैः प्रवर्तते । तत्र प्राण एव मनोब्रह्मणो वागाद्यपेक्षया चतुर्थपादः । स च वायुनाधिदैविकेन भात्यभिव्यज्यते स्वव्यापारे च तपत्युद्गच्छतीत्यर्थः ।

यद्यपि छान्दोग्यभाष्ये घ्राणेन्द्रियमिन्द्रियप्रकरणात्प्राण इत्युक्तं तथापि प्राणश्रुतिवशादत्र मुख्यप्राणो गृह्यते । अंशांशित्वेन भेदश्रुतिरित्याशङ्क्योपचारप्रसङ्गान्मैवमित्याह -

न हीति ।

नापि करणव्यापार इत्यत्र पृथगुपदेशं हेतुं विभज्य व्याचष्टे -

तथेति ।

प्राणस्य वागादीनां च मिथः संवादलिङ्गेनोत्पत्तिभेदलिङ्गेन चेन्द्रियतद्व्यापारेभ्यो भिन्नत्वसिद्धेर्न लाघवात्तद्वृत्तित्वमित्यर्थः ।

पृथगनुक्रमणं वृत्तिवृत्तिमतोर्भेदादित्याशङ्क्याह -

वृत्तीति ।

तादात्म्याद्भेदोऽप्यस्तीत्याशङ्क्य भेदवादस्याफलत्वान्मैवमित्याह -

न हीति ।

प्रतिज्ञाद्वयेऽपि हेतुं विभज्य व्याख्यायाविभागेनापि व्याख्याति -

तथेति ।

श्रुत्यवष्टम्भेन पक्षद्वयं निराकृत्य कारणवृत्तित्वे दोषान्तरमाह -

न चेति ।

या चक्षुःसाध्या वृत्तिः सैव न श्रोत्रसाध्या, चक्षुरादीनां प्रत्येकमेवैकरूपग्रहणादिवृत्तौ स्वातन्त्र्यात् । अतो न प्राणः सामान्यकरणवृत्तिरित्यर्थः ।

समुदायस्य करणत्वमुपेत्योक्तं तदेव नास्त्यवस्तुत्वात् । द्वित्रिकरणविकलानां च प्राणनाभावप्रसङ्गात् । अतोऽपि न करणवृत्तिः प्राण इत्याह -

समुदायस्येति ।

दृष्टान्तेन समुदितानां करणानां करणत्वं शङ्कते -

नन्विति ।

एकादशत्वं पक्षिषु दार्ष्टान्तिकानुरोधादुक्तम् ।

वैषम्यं दर्शयन्परिहरति -

इति नेति ।

तत्रेति दृष्टान्तोक्तिः ।

दार्ष्टान्तिकेऽपि किमित्यवान्तरव्यापारवतां प्राणानां प्राणाख्यसामान्यवृत्तिर्न स्यादित्याशङ्क्यावान्तरव्यापारस्तेषां श्रवणादिर्वा वृत्त्यन्तरं वेति विक्ल्प्याद्ये श्रोत्रादीनां श्रवणादिव्यापारयौगपद्ये मानायोगान्मैवमित्याह -

इह त्विति ।

कल्पान्तरं प्रत्याह -

प्रमाणेति ।

किञ्च श्रवणादीनामपरिस्पन्दत्वात्तत्प्रधानव्यापाराननुरूपत्वान्न तदवान्तरव्यापारतेत्याह -

अत्यन्तेति ।

किञ्च वागादिवृत्तित्वे प्राणस्य वागादिपारतन्त्र्यं वाच्यं, तद्वैपरीत्यं चात्र दृष्टं, तन्न प्राणस्य वागादिवृत्तितेत्याह -

तथेति ।

पृथगुपगदेशयुक्तिफलमुपसंहरति -

तस्मादिति ।

अपृथगुपदेशस्य गतिं पृच्छति -

कथमिति ।

यथा मृदोऽवस्थाविशेषो घटो मृदात्मा तथा वायोरवस्थाविशेषः प्राणो वाय्वात्मेत्याह -

उच्यत इति ।

अध्यात्मापन्नः शरीरे प्रतिष्ठितः पञ्चव्यूहः प्राणापानव्यानोदानसमानाख्यावस्थाविशेषवान्विशेषात्मना व्यावृत्तरूपेणेति यावत् ।

कथं तर्हि पृथगुपदेशः, तत्राह -

नापीति ।

तत्त्वान्तरत्वस्य तन्मात्रत्वस्य चास्वीकारे फलितमाह -

अतश्चेति ।

‘यः प्राणः स वायुः’ इति सामानाधिकरण्यवाक्येन प्राणस्य वायुत्वं सिद्धम् , ‘एतस्माज्जायते प्राणः’ इत्युत्पत्तिभेदलिङ्गेन स्वरूपभेदो दृष्टः । द्वयोश्च वाक्यलिङ्गयोर्विरोधे वाक्यं समीरणस्वभावताविषयं लिङ्गं व्यक्तिभेदविषयमिति व्यवस्थाया वायोः प्राणस्य च विषयभेदो युक्तः, लिङ्गस्य च बलीयस्त्वादिति भावः ॥ ९ ॥