प्राणस्य जीवभोगोपकरणत्वे सविषयत्वप्रसक्तिमुक्तां प्रत्याह -
न तावदिति ।
प्राणस्याकरणत्वे कथं जीवस्य सर्वार्थत्वेनोपकरणभूतोऽसावित्युक्तमाशङ्क्याह -
न हीति ।
विषयपरिच्छेदाभावे प्रणस्याप्रमाणत्वान्न सत्त्वधीरित्यशङ्क्याह -
न चेति ।
कार्यलिङ्गकमनुमानं प्राणे सम्भवतीत्युक्तं प्रश्नपूर्वकं सूत्रावयवेन स्फुटयति -
कस्मादिति ।
अन्वयव्यतिरेकसिद्धं प्राणानामसम्भाव्यं कार्यं मुख्यप्राणस्य दर्शयति -
प्राणान्तरेष्विति ।
प्राणोपास्तिप्रक्रमार्थोऽथशब्दः । अहंश्रेयसीति स्वस्य श्रेष्ठतानिमित्तं व्यूदिरे विवादं चक्रिरे । तद्वृत्तिमात्रहीनं मूकादित्वेन स्थितमिति यावत् ।
न केवलं प्राणस्योत्क्रमणेच्छायां वागादिशैथिल्यापत्तिलिङ्गेन प्राणनिमित्ता देहस्थितिः किन्तु यथोक्तमर्थं श्रुतिः स्वयमेव निर्वक्तीत्याह -
तानिति ।
तत्रैव श्रुत्यन्तरमाह -
प्राणेनेति ।
अवरं निकृष्टमनेकाशुचिनीडं कुलायं देहाख्यं गृहं प्राणानुपसंहारेण रक्षञ्जीवः सुप्तिं याति । प्राणस्याप्युपसंहारे मृतभ्रान्तिः स्यादित्यर्थः ।
प्राणस्य कार्यान्तरं श्रुत्यन्तरेण दर्शयति -
यस्मादिति ।
तेन प्राणेन यदश्नाति जीवस्तेनाशनादिनेति यावत् ।
प्राणस्य कार्यान्तरं वाक्यान्तरेणोपन्यस्यति -
कस्मिन्निति । ॥ ११ ॥