ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अकरणत्वाच्च न दोषस्तथाहि दर्शयति ॥ ११ ॥
तावद्विषयान्तरप्रसङ्गो दोषः, अकरणत्वात्प्राणस्य हि चक्षुरादिवत् प्राणस्य विषयपरिच्छेदेन करणत्वमभ्युपगम्यते अस्य एतावता कार्याभाव एवकस्मात् ? तथा हि श्रुतिः प्राणान्तरेष्वसम्भाव्यमानं मुख्यप्राणस्य वैशेषिकं कार्यं दर्शयति प्राणसंवादादिषुअथ प्राणा अहꣳ श्रेयसि व्यूदिरे’ (छा. उ. ५ । १ । ६) इत्युपक्रम्य, यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत वः श्रेष्ठः’ (छा. उ. ५ । १ । ७) इति उपन्यस्य, प्रत्येकं वागाद्युत्क्रमणेन तद्वृत्तिमात्रहीनं यथापूर्वं जीवनं दर्शयित्वा, प्राणोच्चिक्रमिषायां वागादिशैथिल्यापत्तिं शरीरपातप्रसङ्गं दर्शयन्ती श्रुतिः प्राणनिमित्तां शरीरेन्द्रियस्थितिं दर्शयति; ‘तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामिइति एतमेवार्थं श्रुतिराहप्राणेन रक्षन्नवरं कुलायम्’ (बृ. उ. ४ । ३ । १२) इति सुप्तेषु चक्षुरादिषु प्राणनिमित्तां शरीररक्षां दर्शयति; यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यति’ (बृ. उ. १ । ३ । १९), इतितेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवतिइति प्राणनिमित्तां शरीरेन्द्रियपुष्टिं दर्शयति; ‘कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति प्राणमसृजतइति प्राणनिमित्ते जीवस्योत्क्रान्तिप्रतिष्ठे दर्शयति ॥ ११ ॥

प्राणस्य जीवभोगोपकरणत्वे सविषयत्वप्रसक्तिमुक्तां प्रत्याह -

न तावदिति ।

प्राणस्याकरणत्वे कथं जीवस्य सर्वार्थत्वेनोपकरणभूतोऽसावित्युक्तमाशङ्क्याह -

न हीति ।

विषयपरिच्छेदाभावे प्रणस्याप्रमाणत्वान्न सत्त्वधीरित्यशङ्क्याह -

न चेति ।

कार्यलिङ्गकमनुमानं प्राणे सम्भवतीत्युक्तं प्रश्नपूर्वकं सूत्रावयवेन स्फुटयति -

कस्मादिति ।

अन्वयव्यतिरेकसिद्धं प्राणानामसम्भाव्यं कार्यं मुख्यप्राणस्य दर्शयति -

प्राणान्तरेष्विति ।

प्राणोपास्तिप्रक्रमार्थोऽथशब्दः । अहंश्रेयसीति स्वस्य श्रेष्ठतानिमित्तं व्यूदिरे विवादं चक्रिरे । तद्वृत्तिमात्रहीनं मूकादित्वेन स्थितमिति यावत् ।

न केवलं प्राणस्योत्क्रमणेच्छायां वागादिशैथिल्यापत्तिलिङ्गेन प्राणनिमित्ता देहस्थितिः किन्तु यथोक्तमर्थं श्रुतिः स्वयमेव निर्वक्तीत्याह -

तानिति ।

तत्रैव श्रुत्यन्तरमाह -

प्राणेनेति ।

अवरं निकृष्टमनेकाशुचिनीडं कुलायं देहाख्यं गृहं प्राणानुपसंहारेण रक्षञ्जीवः सुप्तिं याति । प्राणस्याप्युपसंहारे मृतभ्रान्तिः स्यादित्यर्थः ।

प्राणस्य कार्यान्तरं श्रुत्यन्तरेण दर्शयति -

यस्मादिति ।

तेन प्राणेन यदश्नाति जीवस्तेनाशनादिनेति यावत् ।

प्राणस्य कार्यान्तरं वाक्यान्तरेणोपन्यस्यति -

कस्मिन्निति । ॥ ११ ॥