अधिकरणस्य विषयसंशयौ दर्शयति -
ते पुनरिति ।
अन्वयव्यतिरेकाभ्यामाद्यो विकल्पः, द्वितीयो देवताधिष्ठितत्वोक्तेरिति विवेक्तव्यम् । ‘चक्षुषा हि रूपाणि पश्यति’ इति । ‘आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्’ इत्यदिश्रुतेरविरोधद्वारा देवताधिष्ठितचक्षुरादिकारणे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतिः । पूर्वपक्षे श्रुत्योर्विरोधादुक्तसमन्वयासिद्धिः । सिद्धान्ते तदविरोधात्तत्सिद्धिः ।
केवलव्यतिरेकाभावाद्देवताया नाधिष्ठातृत्वमिति पूर्वपक्षयति -
तत्रेति ।
न च दृष्टकारणक्लृप्तावन्वयव्यतिरेकापेक्षायामपि देवतायाः श्रुतेरधिष्ठातृत्वोक्तेर्न तदपेक्षेति वाच्यं, देवतायास्तत्राधिष्ठातृत्वादृष्टेर्वागादिभावस्यैव भानात् । न च चेतनस्याचेतनभावाऽसिद्धेरधिष्ठातृत्वमेवेति युक्तम् , अचेतनस्याग्न्यादेरचेतनवागादिभावसिद्धेरिति भावः ।
इतश्च स्वमहिम्नैव प्राणानां प्रवृत्तिरित्याह -
अपिचेति ।
देवताश्चश्रुरादिजन्यकर्मतत्फलयोगिन्यश्चक्षुराद्यभिमानेन प्रवर्तकत्वाज्जीववदित्यनुमित्या तदेव स्फुटयति -
देवतेति ।
सिद्धसाध्यत्वमाशङ्क्य विरोधाभिप्रायानेकाधिष्ठिततया शरीरस्य गमनाद्यसम्भवापत्तेः शरीरस्य भोक्तृत्वं न स्यादित्याह -
शारीरस्येति ।
‘न ह वै देवान्पापं गच्छति’ इत्यादिना देवताया भोक्तृत्वं निरस्तमित्याशङ्क्य पुण्यफलमेव देवता भुञ्जते न पापफलमित्येतावन्मात्रस्य तत्रेष्टत्वान्मैवमिति मत्वोपसंहरति -
अत इति ।
पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।
तत्र पूर्वपक्षनिषेधं विभजते -
तुशब्देेनेति ।
उत्तरपक्षप्रतिज्ञां प्रकटयति -
ज्योतिरादिभिरिति ।
हेतुमवतार्य विवृणोति -
हेतुं चेति ।
तद्भाव एवात्र भाति, नच तदधिष्ठातृत्वमित्याशङ्क्य चेतनानामचेतनत्वासिद्धेरधिष्ठातृत्वमेवात्रेष्टमित्याह -
अग्नेश्चेति ।
अधिष्ठानाधिष्ठेयत्वं हित्वोपादानोपादेयत्वमुपेत्याग्न्यादीनामचेतनानामेव वागादिभावेन मुखादिषु प्रवेशः स्यादित्याशङ्क्याह -
न हीति ।
वाक्चक्षुषोस्तैजसत्वेन तेजोमात्रत्वे सत्यग्न्यादित्यशब्दयोरैकार्थ्येन पौनरुक्त्याद्व्यक्तिभेदेन कारणभेदे चक्षुरादेरादित्यमण्डलादिव्यतिरिक्तस्थले कार्यानुपलब्धिप्रसङ्गाद्देवतानां चेतनानामेवाग्न्यादीनामधिष्ठातृत्वेन सम्बन्धो वागादिषु विवक्षितो न सम्बन्धान्तरं सदप्यत्राभिप्रेतमित्यर्थः ।
अग्निर्वाग्भूत्वेत्याद्युक्तमन्यत्राप्यतिदिशति -
तथेति ।
अग्न्यादीनामधिष्ठातृत्वं वागादीनामधिष्ठेयतेत्यत्रैव हेत्वन्तरमाह -
तथेति ।
तत्रैव लिङ्गान्तरमाह -
स वा इति ।
स प्राणो वाचं प्रथमामुद्गीथकर्मणि प्रधानां मृत्युमतीत्यावहत्प्रापयत् । किं प्रापितवानित्युच्यते । यदा हि मुक्ता तदा सा पूर्वमप्यग्निरेव सती मृत्युवियोगे प्रतिबन्धाभावादग्निरेवाभवदित्यर्थः ।
इतश्चाग्न्यादीनां वागादीनां चाधिष्ठानाधिष्ठेयत्वमित्याह -
सर्वत्रेति ।
उक्तेऽर्थे स्मृतिमपि संवादयति -
स्मृताविति ।
पूर्वपक्षबीजमनुभाषते -
यदिति ।
प्राणानां स्वकार्यशक्तियोगेऽपि चेतनाधिष्ठितानामेव प्रवृत्तिरित्याह -
तदिति ।
शकटादीनां बलीवर्दाद्यधिष्ठितानां प्रवृत्तिर्दृष्टा, क्षीरादीनामनधिष्ठितानामपि दध्यादिप्रवृत्तिसिद्धिः, तथाचोभयथासम्भवे कथं निर्णयः, तत्राह -
उभयथेति ॥ १४ ॥