ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
तस्य च नित्यत्वात् ॥ १६ ॥
तस्य शारीरस्यास्मिन् शरीरे भोक्तृत्वेन नित्यत्वम्पुण्यपापोपलेपसम्भवात् सुखदुःखोपभोगसम्भवाच्च, देवतानाम्ता हि परस्मिन्नैश्वरे पदेऽवतिष्ठमाना हीनेऽस्मिन् शरीरे भोक्तृत्वं प्रतिलब्धुमर्हन्तिश्रुतिश्च भवतिपुण्यमेवामुं गच्छति वै देवान्पापं गच्छति’ (बृ. उ. १ । ५ । २०) इतिशारीरेणैव नित्यः प्राणानां सम्बन्धः, उत्क्रान्त्यादिषु तदनुवृत्तिदर्शनात्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति’ (बृ. उ. ४ । ४ । २) इत्यादिश्रुतिभ्यःतस्मात् सतीष्वपि करणानां नियन्त्रीषु देवतासु शारीरस्य भोक्तृत्वमपगच्छतिकरणपक्षस्यैव हि देवता, भोक्तृपक्षस्येति ॥ १६ ॥

कदाचिद्देवतानामत्र भोक्तृत्वं कदाचिज्जीवस्येत्यवस्थामाशङ्क्याह -

तस्येति ।

स्वकर्मार्जिते देहे जीवस्य भोक्तृतानियमान्मैवमित्यर्थः ।