तमेवार्थं विवृणोति -
वैलक्षण्यं चेति ।
किमिदं वैलक्षण्यं तदाह -
सुप्तेष्विति ।
अर्थक्रियाकृतं वैलक्षण्यान्तरमाह -
तस्यैवेति ।
लक्षणभेदकृतं फलमुपसंहरति -
तस्मादिति ।
अभेदश्रुतेरुक्तमभेदमनुवदिति -
यदिति ।
अभेदे तस्यास्तात्पर्याभावान्मैवमित्याह -
तदिति ।
अभेदश्रुतिः सप्तम्यर्थः ।
भेदप्रतीतिं प्रकटयति -
तथीहीति ।
दध्रे धारणाभिप्रायं चक्रे । तस्मान्मृत्युना श्रमेणाक्रान्तत्वादिति यावत् ।
प्राकारान्तरेण भेदप्रतीतिमाह -
अयमिति ।
अभेदश्रुतेस्तर्हि का गतिः, तामाह -
तस्मादिति ।
एतस्यैव सर्वे रूपमभवन्निति वाक्यात्तस्मादेत एतेनाख्यायन्ते प्राणा इति च प्राणश्रुतेरिन्द्रियाणां प्राणवृत्तित्वे प्राप्ते प्राणसंवादादिगतैर्बहुभिर्भेदलिङ्गैरर्थान्तरत्वे च लिङ्गैर्बलीयोभिरबलं वाक्यं बाध्यते । श्रुतिरपीन्द्रियाणां प्राणसंज्ञार्थेत्यन्यपरा लिङ्गैर्बहुभिर्बाध्येति भावः ।
यत्तु प्राणशब्दस्य मुख्यत्वसम्भवे न लक्षणेति, तत्राह –
अत इति ।
प्राणस्येन्द्रियेभ्यो भेदो यस्मात् प्रामाणिकस्तस्मादेव तच्छब्दस्य तेषु मुख्यतायोगाद्युक्ता लक्षणेत्यर्थः ।
श्रुत्यालोचनातोऽपि प्राणशब्दस्य लक्षणासिद्धिरित्याह -
तथाचेति ।
अभेदश्रुतेर्गतिमुक्त्वोपसंहरति -
तस्मादिति ।
तदेवं भेदाभेदश्रुत्योरविरोधात्तत्त्वान्तरभूतवागादिमूलकारणे ब्रह्मणि समन्वयधीरित्युपसंहर्तुमितीत्युक्तम् ॥ १९ ॥