उत्पत्तिरुत्पादनेति व्यापारावुत्पद्यमानोत्पादकगतौ प्रसिद्धौ । तत्र जगदुत्पत्तिश्रुतिविरोधोऽतीतेन सन्दर्भेण निरस्तः । संप्रत्युत्पादनाविषयश्रुतिविरोधो निरस्यते । तत्रापि भूतसूक्ष्मोत्पादनं पारमेश्वरमेवेति श्रुतिष्वविप्रतिपन्नम् । भौतिकनिर्माणश्रुतिषु विप्रतिपत्तिरिति तन्निरासार्थमाह -
संज्ञेति ।