नामरूपाभेदात्करणानां प्राणाभेदशङ्कानिरासप्रसङ्गेन नामरूपव्याकरणं किङ्कर्तृकमिति निरूपयतीति विशेषसङ्गतिं गृहीत्वाऽधिकरणस्य विषयमाह -
सदिति ।
उपदेशमेव दर्शयति -
सेयमिति ।
ईक्षणप्रयोजनं यद्बहुभवनमुक्तं तदद्यापि न सिद्धमिति पुनरीक्षां कृतवती सदाख्या देवतेत्यर्थः ।
ईक्षणप्रकारमभिनयति -
हन्तेति ।
इदानीमहमिमा यथोक्तास्तेजोबन्नाख्यास्तिस्त्रो देवता व्यवहारापेक्षायामनेन पूर्वसृष्टावनुभूतेनाधुना स्मृतेन जीवेनात्मना बुद्ध्यादिभूतमात्रायामादर्शे मुखवदनुप्रविश्य नाम च रूपं च ते व्याकरवाणीदमस्य नामेदं च रूपमिति स्पष्टं करवाण्येवमीक्षित्वा पुनरपि देवता व्यवहारार्थमीक्षां चकारेत्याह -
तासामिति ।
तिसृणां देवतानामेकैकां देवतां त्रिवृतं त्रिवृतं तेजोऽबन्नात्मना त्र्यात्मिकां त्र्यात्मिकां करवाणि । तथा च स्थूलभूतेषु व्यवहारसिद्धिरित्यर्थः ।
नामरूपव्याकरणं विषयीकृत्यानेन जीवेनेत्यस्य व्याकरवाणीत्यनेन वानुप्रविश्येत्यनेन वा सम्बन्धसम्भावनया सन्देहमाह -
तत्रेति ।
भौतिकसृष्टिश्रुतिविरोधनिरासेन परस्मिन्नेव तत्कारणे ब्रह्मणि समन्वयसाधनात्पादादिसङ्गतिः । पूर्वपक्षे जीवस्यैव भौतिकसृष्टिकारणत्वात्तस्मिन्नेव समन्वयाद्ब्रह्मणि तदसिद्धिः ।
सिद्धान्ते परस्यैव तद्धेतुत्वात्तत्रैव तत्सिद्धिरित्यभिसन्धाय पूर्वपक्षमाह -
तत्रेत्यादिना ।
जीवेनेत्यस्य प्रविश्येत्यनेन सम्बन्धान्न जीवस्य व्याकर्तृत्वमिति शङ्कते -
कुत इति ।
क्रियापदस्य प्राधान्यात्तेनान्येषामन्वयाज्जीवेनेत्यस्य व्याकरवाणीत्यनेन सङ्गतिरित्याह -
अनेनेति ।
सेयं देवतेत्युपक्रम्य व्याकरवाणीत्युत्तमपुरुषप्रयोगाद्देवताया व्याकर्तृत्वं न जीवस्येत्याशङ्क्योपचारादुत्तमपुरुषप्रयोगं दृष्टान्तेन दर्शयति -
यथेत्यादिना ।
उपचारान्मुख्यग्रहणं युक्तमित्याशङ्क्य जीवेनेति विशेषणवैयर्थ्यान्मैवमिति मत्वा दार्ष्टान्तिकमाह -
एवमिति ।
जीवस्य प्रवेष्टृत्वं ब्रह्मणो व्याकर्तृत्वमित्यङ्गीकारे समानकर्तृकत्वाऽऽभावात्क्त्वाप्रत्ययविरोधः स्यादिति भावः ।
नदीसमुद्रादिव्याकरणे जीवस्यायोग्यत्वाद्ब्रह्मणस्तत्र कर्तृतेत्याशङ्क्यानुमानमाह -
अपिचेति ।
विप्रतिपन्नमिदमा परामृश्यते । भौतिकसृष्टिश्रुतिषु विरोधान्न सर्वकारणे ब्रह्मणि समन्वयसिद्धिरिति पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।
सूत्रं पदशो विभजते -
तुशब्देनेति ।
पदार्थमुक्त्वा प्रतिज्ञावाक्यार्थं स्फुटयति -
येयमिति ।
अधिदैवविषयमग्न्याद्युदाहरणम् । अधिभूतविषयं कुशादि । पश्वाद्यध्यात्मविषयमिति भेदः ।
न केवलं जात्युपाधावनेकप्रकारं किन्तु व्यक्त्युपाधावपीत्याह -
प्रतीति ।
कारणविषयविप्रतिषेधनिषेधयावधारणम् । तत्र सौत्रं हेतुं प्रश्नपूर्वकमादाय व्याचष्टे -
कुत इति ।
परोक्तमनुवदति -
नन्विति ।
आकाङ्क्षासंनिधियोग्यतावशेनान्वयाज्जीवेनेत्यस्य प्रविश्येत्यनेन संनिधानाज्जीवस्य च सर्वनामरूपव्याकरणे योग्यत्वाभावात्तस्य प्रवेशेनैव सम्बन्धो नान्येनेत्याह -
नैतदिति ।
उपसर्जनस्योपसर्जनेनासम्बन्धात्प्रधानेन क्रियापदेनैव जीवपदस्य सङ्गतिरुक्तेत्याशङ्क्य व्याकरवाणीत्युत्तमपुरुषस्यौपचारिकत्वापत्तेर्मैवमित्याह -
तेनेति ।
परोक्तमनुमानं योग्यानुपलब्धिविरोधेन निरस्यति -
नचेति ।
आगमविरोधाच्चायुक्तमनुमानमित्याह -
येष्विति ।
यत्तु कर्तृभेदे क्त्वाप्रत्ययविरोध इति, तत्राह -
नचेति ।
कथं तर्हि व्यपदेशभेदः, तत्राह -
उपाधीति ।
औपाधिके भेदे वास्तवे चाभेदे फलितमाह -
तेनेति ।
जीवब्रह्मणोरैक्याज्जीवकर्तृकमपि व्याकरणं ब्रह्मकर्तृकं चेत्तर्हि जीवकर्तृकमेव सद्ब्रह्मकर्तृकं किं न स्यादित्याशङ्क्य ब्रह्मकर्तृकत्वस्यैव वेदान्तेषु प्रसिद्धेर्मैवमित्याह -
परमेश्वर इति ।
सूत्रार्थमुपसंहरति -
तस्मादिति ।
भूतविषयनामरूपव्याकरणस्य त्रिवृत्करणात्पूर्वमपि सम्भवात्र्रिवृत्कुर्वतो नामरूपव्याकरणं कर्मेति कथमुक्तमित्याशङ्क्य भौतिकविषयमेतदिति विशेषणसिद्धिमाह -
त्रिवृदिति ।
इहेति व्याकरणवाक्योक्तिः ।
किं तत्र्रिवृत्करणं यद्व्याकरणात्पूर्वभावीत्याशङ्क्याह -
तच्चेति ।
यथा छान्दोग्ये भूतत्रयसृष्टिस्तैत्तिरीयश्रुत्यनुरोधाद्भूतपञ्चकविषयोक्ता तथात्रापि त्रिवृत्करणं, पञ्चीकरणाभिप्रायं द्रष्टव्यं श्रुत्यन्तरे पञ्चानां भूतानां सृष्टेरुक्तत्वात् । किं पुनर्नामरूपव्याकरणं, तदाह -
तत्रेति ।
अग्नावुक्तन्यायमतिदिशति -
एवमिति ।
आदित्यादीनां तैजसानामेव श्रुत्योक्तेर्न सर्वत्र त्रिवृत्करणमित्याशङ्क्याह -
अनेनेति ।
यस्य त्रिवृत्करणं गम्यते तस्यैवास्तु किमतिदेशेनेत्याशङ्क्याह -
उपक्रमेति ।
तिस्रस्तावदिमास्तेजोबन्नाख्या देवतास्तासामेकैका देवता त्रिवृत्र्रिवृत्र्र्यात्मिका त्र्यात्मिका भवतीत्युपक्रमार्थः । उपसंहारस्थावितिशब्दौ क्रमेण यच्छब्दाभ्यां सम्बन्ध्येते । अविज्ञातं विशेषरूपेणादृष्टम् । इवकारावुभयत्र दृष्टरूपस्याभासत्वार्थौ । एतासां तिसृणामेव देवतानां समासः । समुदाय इति यावत् ॥ २० ॥