बाह्यं त्रिवृत्करणमुक्त्वाध्यात्मिकेऽस्मिन्मानं वदन्नुत्तरसूत्रसङ्गतिमाह -
तासामिति ।
अध्यात्मं देहे त्रिवृत्करणमपरं कार्यत्रयरूपेण वर्तनमिति यावत् । याः खल्विमा देवतास्तिस्रो बहिस्त्रिवृत्कृता दर्शितास्तासामेकैका देवता पुरुषं शरीरं प्राप्य त्रिवृत्कार्यत्रयरूपेण त्र्यात्मिका त्र्यात्मिका भवतीत्यर्थः ।
तदित्याध्यात्मिकं त्रिवृत्करणमुच्यते । सर्वस्य त्रिवृत्कृतत्वाविशेषे कथं व्यवहारविशेषः स्यादित्याशङ्क्याह -
आशङ्कितमिति ।
उत्तरसूत्रेण शङ्कितं दोषमुद्भाव्य परिहरिष्यन्नादौ त्रिवृत्करणं विषयं दर्शयतीति योजना ।