ननु वैशेषिका मनसो नित्यत्वं साङ्ख्या वाङ्मनसयोराहङ्कारिकत्वमाहुरन्नमयता च मनसोऽन्नसम्बन्धाल्लक्षणार्था तदुपयोगे तत्स्वास्थ्यात् । वाचोऽपि तेजोमयत्वं पाटवेन तेजःसाम्यमेव, तत्राह -
मांसादीति ।
मनआदि भौमादीति वक्तव्ये मांसादिवचनं सिद्धेन सह साध्यस्य मनआदेर्दृष्टान्तार्थम् । यथा मांसादि भौममेवं वाङ्मनसे अपि तैजसभौमे शब्दवशाज्ज्ञेये इत्यर्थः ।