ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
द्वितीयेऽध्याये स्मृतिन्यायविरोधो वेदान्तविहिते ब्रह्मदर्शने परिहृतः, परपक्षाणां च अनपेक्षत्वं प्रपञ्चितम् , श्रुतिविप्रतिषेधश्च परिहृतः । तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानि ब्रह्मणो जायन्त इत्युक्तम् । अथेदानीम् उपकरणोपहितस्य जीवस्य संसारगतिप्रकारः तदवस्थान्तराणि ब्रह्मसतत्त्वं विद्याभेदाभेदौ गुणोपसंहारानुपसंहारौ सम्यग्दर्शनात्पुरुषार्थसिद्धिः सम्यग्दर्शनोपायविधिप्रभेदः मुक्तिफलानियमश्च — इत्येतदर्थजातं तृतीये निरूपयिष्यते; प्रसङ्गागतं च किमप्यन्यत् । तत्र प्रथमे तावत्पादे पञ्चाग्निविद्यामाश्रित्य संसारगतिप्रभेदः प्रदर्श्यते वैराग्यहेतोः — ‘तस्माज्जुगुप्सेत’ इति च अन्ते श्रवणात् । जीवो मुख्यप्राणसचिवः सेन्द्रियः समनस्कोऽविद्याकर्मपूर्वप्रज्ञापरिग्रहः पूर्वदेहं विहाय देहान्तरं प्रतिपद्यत इत्येतदवगतम् — ‘अथैनमेते प्राणा अभिसमायन्ति’ (बृ. उ. ४ । ४ । १) इत्येवमादेः ‘अन्यन्नवतरꣳ कल्याणतरं रूपं कुरुते’ (बृ. उ. ४ । ४ । ४) इत्येवमन्तात् संसारप्रकरणस्थाच्छब्दात् , धर्माधर्मफलोपभोगसम्भवाच्च । स किं देहबीजैर्भूतसूक्ष्मैरसम्परिष्वक्तो गच्छति, आहोस्वित्सम्परिष्वक्तः — इति चिन्त्यते ॥

जीवोपकरणभूतभौतिकजन्मादिनिरूपणानन्तरं तदुपहितजीवस्य संसारप्रकारं निरूपयितुं देहान्तरारम्भे भूतसूक्ष्मपरिष्वक्तस्यैव गमनमिति तावदाह -

तदन्तरेति ।

हेतुहेतुमद्भावसम्बन्धमध्याययोर्वक्तुं पूर्वाध्यायार्थं सङ्क्षिपति -

द्वितीय इति ।

ब्रह्मणि निरपवादे समन्वये स्मृतिन्यायश्रुतिविरोधनिरासेनानध्यवसायरूपाप्रामाण्याभावात्तार्तीयविचारावसरः स्यादिति हेतुहेतुमत्त्वलक्षणसङ्गतिरिति भावः ।

अनन्तरपादस्यावान्तरसङ्गत्यर्थं तदुपयुक्तमनुद्रवति -

तत्र चेति ।

तथाच तैरुपहितस्य जीवस्य संसारप्रकारविचारोऽवतरतीति शेषः ।

इदानीं तार्तीयमर्थं सौकर्यार्थं पादशो विभज्य दर्शयति -

अथेति ।

वैराग्यपादार्थं सङ्गृह्य पदार्थं सङ्गृह्णाति -

तदिति ।

संसाराद्विरक्तस्य मुमुक्षोर्मोक्षहेत्वपरोक्षवाक्यार्थज्ञानसाधनलक्ष्यपदार्थज्ञानाय जीवस्यावस्थान्तराणि ब्रह्मस्वरूपं च निरूप्यत इत्यर्थः ।

तृतीयपादार्थमाह -

विद्येति ।

निर्गुणब्रह्मवाक्यस्थापुनरुक्तपदोपसंहाराय मन्दाधिकारिणां सगुणोपासनैकरूप्याय च सर्वशाखासु विद्या भिन्नाऽभिन्ना वा गुणानामुपसंहारो न वेति विचार्यत इत्यर्थः ।

चतुर्थपादार्थमाह -

सम्यगिति ।

विरक्तस्य लक्ष्यपदार्थज्ञस्य सर्वशाखास्वपुनरुक्तशब्दोपसंहारेणैकरूपवाक्यज्ञानवतो यज्ज्ञानं तावन्मात्रादेव पुरुषार्थस्तद्धेतूनां च यज्ञादिविधीनां शमादिविधीनां च बहिरङ्गत्वान्तरङ्गत्वभेदः शुद्धसत्त्वानां बहिरङ्गापोहेनान्तरङ्गग्रहायोच्यते । यस्मिञ्जन्मनि ज्ञानसाधनानुष्ठानं तस्मिन्नेव जन्मनि ज्ञानोदयेन मुक्तिरित्यनियमो जन्मान्तरीयसंस्कारस्यापि हेतुत्वादित्यर्थः ।

अध्यायार्थं सङ्क्षिप्य निगमयति -

इत्येतदिति ।

लोकायतिकमतनिरसनमपि समधिकमत्रास्तीत्याशङ्क्याह -

प्रसङ्गेति ।

अध्यायार्थं सङ्क्षिप्य पादार्थं सङ्क्षिपति -

तत्रेति ।

पञ्चसु द्युपर्जन्यपृथिवीपुरुषयोषित्स्वग्निदृष्ट्योपासनं पञ्चाग्निविद्या तामाश्रित्य संसारे पुण्यपापफलगतिप्रकारोऽत्र निरूप्यत इति यावत् । तस्यापि प्रदर्शनमेव न प्रतिपादनमिति मत्वोक्तं प्रदर्श्यत इति ।

पुमर्थसाधनमेवात्र निरूप्यं किमर्थं संसारगतिप्रदर्शनं, तत्राह -

वैराग्येति ।

अनेकायासं कर्मकृत्वापि न स्वातन्त्र्यं क्वापि लभ्यते तेन कृतं कर्मतत्फलाभ्यामित्यर्थः ।

पञ्चाग्निविद्योपास्तिरस्मिन्प्रकरणे विधीयते न वैराग्याय संसारगतिरित्याशङ्क्योपसंहारालोचनया संसारगतिरत्र विवक्षितेत्याह -

तस्मादिति ।

यस्मात्कर्मफलभूतः संसारो गत्यागतिरूपोऽनर्थस्तस्माज्जुगुप्सां घृणां कुर्वीत कर्मफले विद्वानिति पञ्चाग्निविद्योपसंहारे श्रवणादत्र वैराग्याय संसारगतिरभिहिता । यद्यपि विरक्तस्याधिकाराद्वैराग्यं शास्त्रादावधिकारिविशेषणं सिद्धं तथापि तदेव युक्त्या दृढीक्रियत इति भावः ।

आद्यपादतात्पर्यमुक्त्वा तदवयवाद्यधिकरणविषयमाह -

जीवइति ।

देहान्तरप्राप्तौ सहायसत्त्वं दर्शयति -

मुख्येति ।

तत्र प्राधनकारणमाह -

अविद्येति ।

अनाद्यनिर्वाच्या चित्प्रतिबिम्बनिमित्ततया जीवत्वहेतुरविद्या । कर्म शुभाशुभव्यामिश्रूपम् । पूर्वप्रज्ञा जन्मान्तरीयसंस्कारः । ते परिग्रहाः प्रधानभूताः संसरणे यस्य स तथा ।

प्रमितस्य विषयत्वात्किमत्र प्रमाणं, तदाह -

अथेति ।

देहान्तरप्रेप्सानन्तर्यमथशब्दार्थः ।

न केवलं शब्दादेव तदवगतं युक्तितश्चेत्याह -

धर्मेति ।

नियतदेशकालफलभोगान्यथानुपपत्त्यापि देहान्तरसञ्चरणं सिद्धमित्यर्थः ।

देहान्तरसञ्चारिणं जीवं विषयीकृत्य वादिविप्रतिपत्तेः सन्देहमाह -

स किमिति ।

देहशब्दो भाविविषयः । आद्ये निराश्रयप्राणगत्यभावान्न वैराग्यम् । चरमे भूतपरिष्वङ्गे प्राणानां नरकादिगतेर्वैराग्यम् । इत्युभयत्र फलम् ।