जीवोपकरणभूतभौतिकजन्मादिनिरूपणानन्तरं तदुपहितजीवस्य संसारप्रकारं निरूपयितुं देहान्तरारम्भे भूतसूक्ष्मपरिष्वक्तस्यैव गमनमिति तावदाह -
तदन्तरेति ।
हेतुहेतुमद्भावसम्बन्धमध्याययोर्वक्तुं पूर्वाध्यायार्थं सङ्क्षिपति -
द्वितीय इति ।
ब्रह्मणि निरपवादे समन्वये स्मृतिन्यायश्रुतिविरोधनिरासेनानध्यवसायरूपाप्रामाण्याभावात्तार्तीयविचारावसरः स्यादिति हेतुहेतुमत्त्वलक्षणसङ्गतिरिति भावः ।
अनन्तरपादस्यावान्तरसङ्गत्यर्थं तदुपयुक्तमनुद्रवति -
तत्र चेति ।
तथाच तैरुपहितस्य जीवस्य संसारप्रकारविचारोऽवतरतीति शेषः ।
इदानीं तार्तीयमर्थं सौकर्यार्थं पादशो विभज्य दर्शयति -
अथेति ।
वैराग्यपादार्थं सङ्गृह्य पदार्थं सङ्गृह्णाति -
तदिति ।
संसाराद्विरक्तस्य मुमुक्षोर्मोक्षहेत्वपरोक्षवाक्यार्थज्ञानसाधनलक्ष्यपदार्थज्ञानाय जीवस्यावस्थान्तराणि ब्रह्मस्वरूपं च निरूप्यत इत्यर्थः ।
तृतीयपादार्थमाह -
विद्येति ।
निर्गुणब्रह्मवाक्यस्थापुनरुक्तपदोपसंहाराय मन्दाधिकारिणां सगुणोपासनैकरूप्याय च सर्वशाखासु विद्या भिन्नाऽभिन्ना वा गुणानामुपसंहारो न वेति विचार्यत इत्यर्थः ।
चतुर्थपादार्थमाह -
सम्यगिति ।
विरक्तस्य लक्ष्यपदार्थज्ञस्य सर्वशाखास्वपुनरुक्तशब्दोपसंहारेणैकरूपवाक्यज्ञानवतो यज्ज्ञानं तावन्मात्रादेव पुरुषार्थस्तद्धेतूनां च यज्ञादिविधीनां शमादिविधीनां च बहिरङ्गत्वान्तरङ्गत्वभेदः शुद्धसत्त्वानां बहिरङ्गापोहेनान्तरङ्गग्रहायोच्यते । यस्मिञ्जन्मनि ज्ञानसाधनानुष्ठानं तस्मिन्नेव जन्मनि ज्ञानोदयेन मुक्तिरित्यनियमो जन्मान्तरीयसंस्कारस्यापि हेतुत्वादित्यर्थः ।
अध्यायार्थं सङ्क्षिप्य निगमयति -
इत्येतदिति ।
लोकायतिकमतनिरसनमपि समधिकमत्रास्तीत्याशङ्क्याह -
प्रसङ्गेति ।
अध्यायार्थं सङ्क्षिप्य पादार्थं सङ्क्षिपति -
तत्रेति ।
पञ्चसु द्युपर्जन्यपृथिवीपुरुषयोषित्स्वग्निदृष्ट्योपासनं पञ्चाग्निविद्या तामाश्रित्य संसारे पुण्यपापफलगतिप्रकारोऽत्र निरूप्यत इति यावत् । तस्यापि प्रदर्शनमेव न प्रतिपादनमिति मत्वोक्तं प्रदर्श्यत इति ।
पुमर्थसाधनमेवात्र निरूप्यं किमर्थं संसारगतिप्रदर्शनं, तत्राह -
वैराग्येति ।
अनेकायासं कर्मकृत्वापि न स्वातन्त्र्यं क्वापि लभ्यते तेन कृतं कर्मतत्फलाभ्यामित्यर्थः ।
पञ्चाग्निविद्योपास्तिरस्मिन्प्रकरणे विधीयते न वैराग्याय संसारगतिरित्याशङ्क्योपसंहारालोचनया संसारगतिरत्र विवक्षितेत्याह -
तस्मादिति ।
यस्मात्कर्मफलभूतः संसारो गत्यागतिरूपोऽनर्थस्तस्माज्जुगुप्सां घृणां कुर्वीत कर्मफले विद्वानिति पञ्चाग्निविद्योपसंहारे श्रवणादत्र वैराग्याय संसारगतिरभिहिता । यद्यपि विरक्तस्याधिकाराद्वैराग्यं शास्त्रादावधिकारिविशेषणं सिद्धं तथापि तदेव युक्त्या दृढीक्रियत इति भावः ।
आद्यपादतात्पर्यमुक्त्वा तदवयवाद्यधिकरणविषयमाह -
जीवइति ।
देहान्तरप्राप्तौ सहायसत्त्वं दर्शयति -
मुख्येति ।
तत्र प्राधनकारणमाह -
अविद्येति ।
अनाद्यनिर्वाच्या चित्प्रतिबिम्बनिमित्ततया जीवत्वहेतुरविद्या । कर्म शुभाशुभव्यामिश्रूपम् । पूर्वप्रज्ञा जन्मान्तरीयसंस्कारः । ते परिग्रहाः प्रधानभूताः संसरणे यस्य स तथा ।
प्रमितस्य विषयत्वात्किमत्र प्रमाणं, तदाह -
अथेति ।
देहान्तरप्रेप्सानन्तर्यमथशब्दार्थः ।
न केवलं शब्दादेव तदवगतं युक्तितश्चेत्याह -
धर्मेति ।
नियतदेशकालफलभोगान्यथानुपपत्त्यापि देहान्तरसञ्चरणं सिद्धमित्यर्थः ।
देहान्तरसञ्चारिणं जीवं विषयीकृत्य वादिविप्रतिपत्तेः सन्देहमाह -
स किमिति ।
देहशब्दो भाविविषयः । आद्ये निराश्रयप्राणगत्यभावान्न वैराग्यम् । चरमे भूतपरिष्वङ्गे प्राणानां नरकादिगतेर्वैराग्यम् । इत्युभयत्र फलम् ।