ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ५ ॥
स्यादेतत् — कथं पुनः ‘पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ (छा. उ. ५ । ३ । ३) इत्येतत् निर्धारयितुं पार्यते, यावता नैव प्रथमेऽग्नावपां श्रवणमस्ति ? इह हि द्युलोकप्रभृतयः पञ्चाग्नयः पञ्चानामाहुतीनामाधारत्वेनाधीताः । तेषां च प्रमुखे ‘असौ वाव लोको गौतमाग्निः’ (छा. उ. ५ । ४ । १) इत्युपन्यस्य ‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति’ (छा. उ. ५ । ४ । २) इति श्रद्धा होम्यद्रव्यत्वेन आवेदिता । न तत्र आपो होम्यद्रव्यतया श्रुताः । यदि नाम पर्जन्यादिषूत्तरेषु चतुर्ष्वग्निष्वपां होम्यद्रव्यता परिकल्प्येत, परिकल्प्यतां नाम, तेषु होतव्यतयोपात्तानां सोमादीनामब्बहुलत्वोपपत्तेः । प्रथमे त्वग्नौ श्रुतां श्रद्धां परित्यज्य अश्रुता आपः परिकल्प्यन्त इति साहसमेतत् । श्रद्धा च नाम प्रत्ययविशेषः, प्रसिद्धिसामर्थ्यात् । तस्मादयुक्तः पञ्चम्यामाहुतावपां पुरुषभाव इति चेत् — नैष दोषः; हि यतः तत्रापि प्रथमेऽग्नौ ता एवापः श्रद्धाशब्देनाभिप्रेयन्ते । कुतः ? उपपत्तेः । एवं ह्यादिमध्यावसानसंगानात् अनाकुलमेतदेकवाक्यमुपपद्यते । इतरथा पुनः, पञ्चम्यामाहुतौ अपां पुरुषवचस्त्वप्रकारे पृष्टे, प्रतिवचनावसरे प्रथमाहुतिस्थाने यद्यनपो होम्यद्रव्यं श्रद्धां नामावतारयेत् — ततः अन्यथा प्रश्नोऽन्यथा प्रतिवचनमित्येकवाक्यता न स्यात् । ‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति च उपसंहरन् एतदेव दर्शयति । श्रद्धाकार्यं च सोमवृष्ट्यादि स्थूलीभवदब्बहुलं लक्ष्यते । सा च श्रद्धाया अप्त्वे युक्तिः । कारणानुरूपं हि कार्यं भवति । न च श्रद्धाख्यः प्रत्ययः, मनसो जीवस्य वा धर्मः सन् धर्मिणो निष्कृष्य होमायोपादातुं शक्यते — पश्वादिभ्य इव हृदयादीनि इति, आप एव श्रद्धाशब्दा भवेयुः । श्रद्धाशब्दश्चाप्सूपपद्यते, वैदिकप्रयोगदर्शनात् — ‘श्रद्धा वा आपः’ इति । तनुत्वं श्रद्धासारूप्यं गच्छन्त्य आपो देहबीजभूता इत्यतः श्रद्धाशब्दाः स्युः — यथा सिंहपराक्रमो नरः सिंहशब्दो भवति । श्रद्धापूर्वककर्मसमवायाच्च अप्सु श्रद्धाशब्द उपपद्यते, मञ्चशब्द इव पुरुषेषु । श्रद्धाहेतुत्वाच्च श्रद्धाशब्दोपपत्तिः, ‘आपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणे’ इति श्रुतेः ॥ ५ ॥

भूतान्तरोपसृष्टानामपां गमनमुपपाद्य पञ्चम्यामाहुतौ तासां पुरुषाकारत्वमुक्तमाक्षिप्य समाधत्ते -

प्रथम इति ।

चोद्यं विभजते -

स्यादिति ।

श्रवणाभावं दर्शयितुमग्नीन्प्रस्तौति -

इहेति ।

पञ्चाग्निविद्याप्रकरणं सप्तम्यर्थः ।

द्युलोकप्रभतृयो द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चाहुतयः श्रद्धासोमदृष्ट्यन्नरेतोरूपास्तथापि कथं प्रथमेऽग्नावपामश्रवणं, तत्राह -

तेषाञ्चेति ।

प्रथमविशेषणमनर्थकमन्यत्राप्यश्रवणादित्याशङ्क्य कथञ्चिदन्यत्र श्रवणेऽपि प्रकृते तन्नास्तीत्याह -

यदीति ।

तर्हि कल्प्यतामपामेव प्रथमेऽपि होम्यत्वमविशेषादित्याशङ्क्याह -

प्रथमे त्विति ।

तत्रापि श्रद्धाशब्देनापामेवोक्तेर्नाश्रवणमित्याशङ्क्याह -

श्रद्धा चेति ।

श्रुतिलक्षणयोः श्रुतिर्न्याय्येति भावः ।

प्रथमेऽग्नावपामश्रुतिफलमाह -

तस्मादिति ।

सिद्धान्तभागं विभजते -

नेत्यादिना ।

श्रद्धाशब्दस्यार्थान्तरे रूढेर्न तेनापामुक्तिरिति शङ्कित्वा सूत्रावयवं व्याचष्टे -

कुत इत्यादिना । एवं हीति ।

श्रुद्धाशब्देनापां ग्रहे सतीति यावत् ।

सङ्गानं सम्प्रतिपत्तिः । तामेव व्यतिरेकेण स्फोरयति -

इतरथेति ।

यदुक्तमितरथा पुनरिति तदेव स्फुटयति -

पञ्चम्यामिति ।

श्रद्धाशब्दस्याद्भ्योऽर्थान्तरत्वं दूषयति -

तत इति ।

यदि चतुर्ष्वेव स्थानेष्वपां होम्यता तदा चतुर्थ्यामाहुताविति वाच्यं पञ्चम्यामिति विशेषणात्प्रथमस्थानेऽपि तासामेव होम्यता सिद्धेत्यर्थः ।

उपसंहारालोचनायामपि श्रद्धाशब्दत्वमपामेवेत्याह -

इति त्विति ।

उपपत्तेरित्यस्यार्थान्तरमाह -

श्रद्धेति ।

श्रद्धापरिणामस्य सोमादेरब्बहुलत्वेऽपि श्रद्धाशब्दत्वमपामित्यत्र किमायातं तदाह -

सा चेति ।

गोमयवृश्चिकादौ प्रत्यक्षेण विलक्षणत्वदृष्टेर्वृष्ट्यादेः श्रद्धाकार्यस्याब्बहुलत्वेऽपि कारणस्य श्रद्धाया मा भूदप्त्वमित्याशङ्क्याह -

कारणेति ।

क्वचिद्वैलक्षण्यस्य प्रवृत्तत्वादिष्टत्वेऽपि श्रद्धापरिणामस्य सोमादेरब्बहुलत्वोपलब्धेः श्रद्धायास्तथात्वं कल्प्यते । वैलक्षण्यग्राहिण्यसति माने कल्पनाया दृष्टानुसारित्वादित्यर्थः ।

यत्तु प्रसिद्ध्या प्रत्ययविशेषः श्रद्धेति, तत्राह -

नचेति ।

जुहोतिश्रुतिसामर्थ्यान्मुख्यार्थत्यागे संनिहितवाक्यानुसारेण लक्षणेत्याह -

इत्याप इति ।

नच धर्मिणा सहैव होमस्तत्रापि लक्षणाध्रौव्ये संनिहितवाक्यानुसारिण्यास्तस्या न्याय्यत्वादिति भावः ।

उपपत्तेरिति भागं विधान्तरेण व्याचष्टे -

श्रद्धेति ।

वृद्धप्रयोगाभावे कथं वैदिकोऽपि प्रयोगः स्यादित्याशङ्क्य तस्यौपचारिकत्वमाह -

तनुत्वमिति ।

सूक्ष्मत्वगुणादप्सु श्रद्धाशब्दस्य गौणत्वे दृष्टान्तमाह -

यथेति ।

श्रद्धाशब्दस्याप्सु गौणत्वमुक्त्वा लाक्षणिकत्वमाह -

श्रद्धेति ।

यत्कर्म श्रद्धापूर्वकं तदुपायत्वेनापां तद्योगात्परम्परया श्रद्धायोगिनीष्वप्सु तच्छब्द इत्यर्थः ।

लक्षणानिमित्तं सम्बन्धान्तरमाह -

श्रद्धेति ।

अपां श्रद्धाहेतुत्वे मानमाह -

आपो हेति ।

अस्मै पुंसेऽधिकारिणे संनमन्ते जनयन्ति दर्शनमात्रेण स्नानादिपुण्यकर्मसिद्ध्यर्थं श्रद्धामित्यर्थः ॥ ५ ॥