ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥ ६ ॥
अथापि स्यात् — प्रश्नप्रतिवचनाभ्यां नाम आपः श्रद्धादिक्रमेण पञ्चम्यामाहुतौ पुरुषाकारं प्रतिपद्येरन्; न तु तत्सम्परिष्वक्ता जीवा रंहेयुः, अश्रुतत्वात् — न ह्यत्र अपामिव जीवानां श्रावयिता कश्चिच्छब्दोऽस्ति । तस्मात् ‘रंहति सम्परिष्वक्तः’ इत्ययुक्तम् — इति चेत् , नैष दोषः । कुतः ? इष्टादिकारिणां प्रतीतेः — ‘अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति’ (छा. उ. ५ । १० । ३) इत्युपक्रम्य इष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रप्राप्तिं कथयति ‘आकाशाच्चन्द्रमसमेष सोमो राजा’ (छा. उ. ५ । १० । ४) इति । त एवेहापि प्रतीयन्ते, ‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति’ (छा. उ. ५ । ४ । २) इति श्रुतिसामान्यात् । तेषां च अग्निहोत्रदर्शपूर्णमासादिकर्मसाधनभूता दधिपयःप्रभृतयो द्रवद्रव्यभूयस्त्वात्प्रत्यक्षमेव आपः सन्ति । ता आहवनीये हुताः सूक्ष्मा आहुत्योऽपूर्वरूपाः सत्यः तानिष्टादिकारिण आश्रयन्ति — तेषां च शरीरं नैधनेन विधानेनान्त्येऽग्नावृत्विजो जुह्वति — ‘असौ स्वर्गाय लोकाय स्वाहा’ इति । ततस्ताः श्रद्धापूर्वककर्मसमवायिन्य आहुतिमय्य आपोऽपूर्वरूपाः सत्यः तानिष्टादिकारिणो जीवान्परिवेष्ट्य अमुं लोकं फलदानाय नयन्तीति यत् , तदत्र जुहोतिना अभिधीयते — ‘श्रद्धां जुह्वतीति’ (बृ. उ. ६ । २ । ९) । तथा च अग्निहोत्रे षट्‍प्रश्नीनिर्वचनरूपेण वाक्यशेषेण ‘ते वा एते आहुती हुते उत्क्रामतः’ इत्येवमादिना अग्निहोत्राहुत्योः फलारम्भाय लोकान्तरप्राप्तिर्दर्शिता । तस्मादाहुतिमयीभिरद्भिः सम्परिष्वक्ता जीवा रंहन्ति स्वकर्मफलोपभोगायेति श्लिष्यते ॥ ६ ॥

अपामेव प्रथमस्थानेऽपि होम्यत्वज्ञानात्पञ्चम्यामाहुतौ तासां पुरुषाकारपरिणामः स्यादित्युक्तम् । इदानीमाद्ये सूत्रे यदद्भिः । परिवेष्टितो जीवो गच्छतीति प्रतिज्ञातं तदसत्त्वमाशङ्क्य परिहरति -

अश्रुतत्वादिति ।

तत्र चोद्यं विशदयति -

अथापीति ।

भूतान्तरोपसृष्टानामपां पुरुषाकारपरिणामेऽपीति यावत् ।

उक्तेऽर्थेऽङ्गीकृते नास्ति विमतिरित्याशङ्क्याह -

न त्विति ।

हेत्वर्थं विवृणोति -

नहीति ।

अत्रेति प्रकरणोक्तिः ।

अश्रुतत्वफलमाह -

तस्मादिति ।

समाधिं विभजते -

नेत्यादिना ।

कर्मफलोक्तिप्रारम्भार्थोऽथशब्दः ।

इष्टादिकारिणां प्रदेशान्तरगमनप्रतीतावपि प्रकृते किमायातं, तदाह -

त इति ।

पञ्चाग्निविद्यावाक्यमिहेत्युक्तम् । तत्र हेतुमाह -

तस्मिन्निति ।

धूमादिवाक्ये पञ्चाग्निवाक्ये च सोमराजत्वप्राप्तिश्रवणविशेषादिष्टादिकारिणः श्रद्धाशब्दिताद्भिर्वेष्टिता द्युलोकं यान्तीति भातीत्यर्थः ।

ननु महदिह श्रुत्योर्वैलक्षण्यं श्रद्धाशब्दितानामपां क्वचिद्द्युलोेके होमः श्रुतः क्वचिदिष्टादिकारिणां धूमादिक्रमेणाकाशप्राप्तिर्न च तेषामापः सन्ति येन तद्वेष्टितानां गतिः, तत्राह -

तेषां चेति ।

आपो यथोक्ताः सन्तु हुतानां तासां कथमिष्टादिकारिभिर्योगः, तत्राह -

ता इति ।

दध्यादीनामपामाहवनीये हुतानामिहैव भस्मीभूतानां न जीवसङ्गतिरित्याशङ्क्य विशिनष्टि -

सूक्ष्मा इति ।

तदेव साधयति -

आहुत्य इति ।

तथापि कथं सहगमनं, तदाह -

तेषां चेति ।

नैधनं विधानमन्त्येष्टिविधानम् ।

होममन्त्रमुदाहरति -

असाविति ।

अमुकनामा यजमानः स्वर्गार्थं गच्छतु । स्वाहाकारो मन्त्रान्तज्ञापनार्थः ।

तथापि कथं परिवेष्टितानामिष्टादिकारिणां गतिः, तत्राह -

तत इति ।

प्रत्यक्षसिद्धदध्यादिवैशेष्यार्थमाहुतिमय्य इत्युक्तम् । क्रियातो विशिनष्टि -

अपूर्वेति ।

तत्र श्रुतिमवतारयति -

यदिति ।

तदेवं श्रुतिसामान्यं प्रतिपाद्याहुतिरुपाणामपां गमने सिद्धे श्रुत्यन्तरमपि मानमित्याह -

तथाचेति ।

अग्निहोत्रप्रकरणे ‘न त्वेवैनयोस्त्वमुत्क्रान्तिं न गति न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनं वेत्थ’ इति जनकेन ये षट् पदार्था याज्ञवल्क्यं प्रयुक्तास्ते षट् प्रश्ना निर्दिश्यन्ते । तेषां निर्वचनरूपो वाक्यशेषः - ‘ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतस्ते अन्तरिक्षं तर्पयित्वा दिवं पृथिवीं पुरुषं योषितं वाविश्य पुरुषरूपेणोत्तिष्ठते’ इत्येवंरूपः । तेनाग्निहोत्रे सायं प्रातश्च क्रियमाणाहुत्योरपूर्वरूपयोरनुष्ठातृगामिफलसिद्धये तेन सह द्युलोकप्राप्तिरुक्ता । तथाच वाचसनेयकश्रुतिपर्यालोचनायामपि जीवानामप्परिवेष्टितानां गतिसिद्धिरित्यर्थः ।

श्रुत्यन्तरालोचनातः सिद्धमुपसंहरति -

तस्मादिति ॥ ६ ॥