ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ॥ ७ ॥
कथं पुनरिदमिष्टादिकारिणां स्वकर्मफलोपभोगाय रंहणं प्रतिज्ञायते, यावता तेषां धूमप्रतीकेन वर्त्मना चन्द्रमसमधिरूढानामन्नभावं दर्शयति — ‘एष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति’ (छा. उ. ५ । १० । ४) इति ? ‘ते चन्द्रं प्राप्यान्नं भवन्ति ताꣳस्तत्र देवा यथा सोमꣳ राजानमाप्यायस्वापक्षीयस्वेत्येवमेनाꣳस्तत्र भक्षयन्ति’ (बृ. उ. ६ । २ । १६) इति च समानविषयं श्रुत्यन्तरम् । न च व्याघ्रादिभिरिव देवैर्भक्ष्यमाणानामुपभोगः सम्भवतीति । अत उत्तरं पठति —

उत्तरसूत्रव्यावर्त्यमाह -

कथमिति ।

का पुनरस्यां प्रतिज्ञायामनुपपत्तिः, तत्राह -

यावतेति ।

नन्वेषशब्देन चन्द्रमा गृह्यते नेष्टादिकारिणस्ततस्तेऽपि सोमं राजानं देवत्वादितरदेववद्भक्षयन्तीत्याशङ्क्य श्रुत्यन्तरे तेषामेव भक्ष्यत्वसिद्धेर्नैवमित्याह -

ते चन्द्रमिति ।

यथा यज्ञे सोमं राजानं चमसस्थमृत्विजः पुनः पुनराप्याययन्त्यपक्षयन्ति चेति दृष्टम् । तथा तानिष्टादिकारिणश्चन्द्रमसि प्राप्तान्देवा भक्षयन्तीत्यर्थः ।

दार्ष्टान्तिकं विवृणोति -

एवमिति ।

देवैरिष्टादिकारिणां भक्ष्यत्वेऽपि तेषामुपभोगाय गमनं किं न स्यादित्याशङ्क्याह -

न चेति ।

उत्तरत्वेन सूत्रमवतारयति -

अत इति ।