इष्टादिकारिणामद्यत्वे मुख्ये भोगाभावो न तु तदस्तीति प्रतिजानीते -
वाशब्द इति ।
तेषां तर्हि श्रूयमाणमन्नत्वं कथमित्याशङ्क्य सिद्धान्तप्रतिज्ञामाह -
भाक्तमिति ।
अन्नशब्दश्रुत्या मुख्येऽन्नत्वे किमिति भाक्तं तदुक्तमित्याशङ्क्यानन्यथासिद्धश्रुत्यर्थापत्तिविरोधादौपचारिकी श्रुतिरित्याह -
मुख्ये हीति ।
अधिक्रियतेऽनेनेत्यधिकारो विधिपुरुषसंबन्धनिमित्तं कामादि तदुक्ता श्रुतिरधिकारश्रुतिस्तस्या वैयर्थ्यपरिहारार्थमिष्टादिकारिणामन्नत्वं भाक्तमेवेत्यर्थः ।
उक्तमेव व्यनक्ति -
चन्द्रेति ।
न केवलं मुख्यार्थबाधादन्नशब्दस्यामुख्यार्थत्वमन्यत्र प्रयोगादपीत्याह -
अन्नेति ।
अन्नत्वस्यामुख्यत्वे कथं भक्षयन्तीत्युक्तं, तत्राह -
तस्मादिति ।
न केवलमिष्टादिकारिणामन्नत्वस्यामुख्यत्वादमुख्यमेषां भक्षणं किं तु श्रुत्यन्तरादपीत्याह -
न ह वा इति ।
तथापि पारतन्त्र्यान्नेष्टादिकारिणां भोगसिद्धिरिति कुतो भोगाय गमनं, तत्राह -
तेषां चेति ।
केन दोषेण तेषां देवभोग्यतेत्याशङ्क्य सूत्रावयवं व्याचष्टे -
अनात्मेति ।
अत्र मानं दर्शयन्नवशिष्टं सूत्रांशं योजयति -
तथाहीति ।
अविद्याधिकारारम्भार्थोऽथशब्दः ।
उपास्तिमेव भेददृष्टिं स्पष्टयति -
अन्योऽसाविति ।
भेददृष्टिनिदानमाह -
न स इति ।
तस्य दृष्टान्तं देवोपभोग्यत्वमाह -
यथेति ।
उक्तश्रुतेस्तात्पर्थमाह -
स चेति ।