ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ॥ ७ ॥
अनात्मवित्त्वात् तथा हि दर्शयति इत्यस्य अपरा व्याख्या — अनात्मविदो ह्येते केवलकर्मिण इष्टादिकारिणः, न ज्ञानकर्मसमुच्चयानुष्ठायिनः । पञ्चाग्निविद्यामिह आत्मविद्येत्युपचरन्ति, प्रकरणात् । पञ्चाग्निविद्याविहीनत्वाच्चेदमिष्टादिकारिणां गुणवादेनान्नत्वमुद्भाव्यते पञ्चाग्निविज्ञानप्रशंसायै । पञ्चाग्निविद्या हीह विधित्सिता, वाक्यतात्पर्यावगमात् । तथा हि श्रुत्यन्तरं चन्द्रमण्डले भोगसद्भावं दर्शयति — ‘स सोमलोके विभूतिमनुभूय पुनरावर्तते’ (प्र. उ. ५ । ४) इति । तथा अन्यदपि श्रुत्यन्तरम् ‘अथ ये शतं पितॄणां जितलोकानामानन्दाः … स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्ते’ (बृ. उ. ४ । ३ । ३३) इति इष्टादिकारिणां देवैः सह संवसतां भोगप्राप्तिं दर्शयति । एवं भाक्तत्वादन्नभाववचनस्य, इष्टादिकारिणोऽत्र जीवा रंहन्तीति प्रतीयते । तस्मात् ‘रंहति सम्परिष्वक्तः’ इति युक्तमेवोक्तम् ॥ ७ ॥

अनात्मश्रुतेर्मुख्यार्थत्वानुरोधेन सूत्रांशस्यार्थमुक्त्वा प्रकरणानुरोधेनार्थान्तरमाह -

अनात्मेति ।

पञ्चाग्निविद्याविहीनत्वं तेषामनात्मवित्त्वम् ।

तद्वत्त्वेनात्मवित्त्वं चेत्तद्राहित्येनानात्मवित्त्वं तदेव कथमित्याशङ्क्याह -

पञ्चाग्नीति ।

इष्टादिकारिणां पञ्चाग्निविद्याशून्यत्वेऽपि कथं देवान्प्रत्यन्नत्वं, तत्राह -

पञ्चेति ।

गुणवादेन देवोपभोग्यत्वेनेति यावत् ।

किमर्था प्रशंसेत्याशङ्क्याह -

पञ्चाग्नीति ।

तस्यापि विधित्सितत्वे हेतुमाह -

वाक्येति ।

गौतमप्रवाहणसंवादरूपवाक्यस्य पूर्वापरालोचनया पञ्चाग्निविद्याविधौ तात्पर्यावगतेरिति यावत् ।

अनात्मवित्त्वादिति व्याख्याय तथाहीत्यादि व्याख्याति -

तथाहीति ।

इष्टादिकारी सर्वनामार्थः ।

पूर्वोक्तवाक्येन तुल्यार्थत्वबुद्ध्या तथेत्युक्तम् । पञ्चाग्निविद्याधिकारादन्यत्र प्रवृत्तत्वमाह -

अन्यदिति ।

अत एव श्रुत्यन्तरमित्युक्तम् । पर्यायान्तरोपक्रमार्थोऽथशब्दः । जितो लोकः पूर्वसिद्धो लोको भोग्यो येषां तेषामाजानसिद्धानामिति यावत् ।

कर्मदेवत्वं व्युत्पादयति -

य इति ।

श्रुत्यन्तरस्य तात्पर्यमाह -

इष्टादीति ।

तेषामन्नत्वस्य भाक्तत्वे फलितमाह -

एवमिति ।

अत्रेति प्रश्नप्रतिवचनोक्तिः ।

इष्टादिकारिणां भोगाय चन्द्रं प्रति गमने सम्भाविते तेषामेव प्रश्नप्रतिवचनयोरपि प्रतीतेर्युक्तं प्रथमसूत्रोक्तमित्युपसंहरति -

तस्मादिति ॥ ७ ॥